________________
१२१-१२५]
पाठकश्रीजयसोमविरचित : व्याख्या- इति पूर्वोक्तप्रकारेण, पितुर्योधभूधवस्य शिक्षा धृत्वा, शिरसि शेषामिव निधाय, राजसूर्नुपपुत्रो विक्रमस्ततो योधपुरादन्येधुरन्यस्मिन् काले, प्रशस्तदिवसे पञ्चम्यादिपूर्णतिथौ, शुभैर्विजयकारिभिः शकुनैः, ससेनः सेनासहितः, प्रतस्थे चचाल । 'शकुनं स्यादेवशंसिनिमित्ते शकुनः खगे।' इत्यनेकार्थः ॥ १२०
वत्सराजकृतोत्साहो हित्वा पितृधरां क्रमात् ।
काहूनीस्थानमध्यास्त कुमारो विक्रमाधिकः ॥ १२१ व्याख्या-कुमारो विक्रमो, वत्सराजेन मन्त्रिणा कृत उत्साहो नव्यधराखीकरणोद्यमो यस्मिन् स वत्सराजकृतोत्साहो नव्यधरां गृहीतुं वत्सराजोक्त्या धृतोद्यम इत्यर्थः । पितृधरां योधनृपभूमिं हित्वा त्यक्त्वा, क्रमाद् गमनपरिपाट्या काहुनीस्थानमध्यास्त अधिवसति स्म अधितष्ठौ । किम्भूतः ? विक्रमेण पराक्रमेणाऽधिकोऽतिशायी कुमारो युवराजः । 'कुमारोऽश्वानुचारके। युवराजे शिशौ स्कन्दे शुके वरुणपादपे' इत्यनेकार्थः। काहुनीस्थानमध्यास्तेत्यत्र 'अधिशीस्थासां कर्म' इत्याधारस्य कर्मता । अधिशेतेऽधितिष्ठत्यध्यास्ते वा वैकुण्ठं हरिरितिवत् ॥ १२१
किमसाध्यं समर्थानामिति सत्या जनोक्तयः।
कृता येन परां भूमिं गच्छता सत्त्वशालिना ॥१२२ व्याख्या-येन विक्रमेण परां स्वपितृभूमेरन्यां भूमिं गच्छता सता, समर्थानां शक्तिमतां किमसाध्यं किं साधयितुमशक्यं किमग्राह्य ? इति यावत् इति जनोक्तयो लोकोक्तयः, सत्या अवितथाः कृताः । अनेनाप्यसाध्यदेशसाधनं विदधे । तेनेमानि जनवचांसि सत्यीकृतानीति भावः । किम्भूतेन ? सत्त्वशालिना सत्त्वं व्यवसायोऽतिशयवद्वीर्यमवष्टम्भ इति यावत् , तच्छालते 15 श्लाघत इत्येवंशीलः सत्त्वशाली तेन । 'सत्त्वं द्रव्ये गुणे चित्ते, व्यवसायस्वभावयोः' इत्यादि ॥ १२२
वत्सराजोऽपि धुर्योऽभूदू विक्रमाश्रयणादिह ।
तद्देशमात्मसाचक्रे सत्यसन्धः क्रमादसौ ॥ १२३ व्याख्या- इह जङ्गले विक्रमाश्रयणाद् विक्रमो विक्रमकुमारः, पक्षे विक्रमः पराक्रमस्तदाश्रयणात् तदङ्गीकाराद् वत्सराजोऽपि, धुर्यो धौरेयः प्रतिपन्न निर्वाहकोऽभूद् बभूव । धुरं वहति धुर्यः । 'धुरो यडकौ' इति यत् । क्रमात् क्रमेणाऽसौ 20 वत्सराजस्तद्देशं जङ्गलदेशमात्मसात् खायत्तं चक्रे चकार । किम्भूतः ? सत्यसन्धः सत्या अवितथा सन्धा प्रतिज्ञा यस्य स सत्यसन्धः । 'सन्धा स्थितिप्रतिज्ञयोः' इत्यनेकार्थः ॥ १२३
दुर्दान्तमौलभूमीशान् निर्वास्य स ततोऽखिलान् ।
गजाश्वादिबलं देशात् सज्जीचक्रे बलाबली ॥ १२४ व्याख्या- ततस्तस्माद्देशाज्जङ्गलदेशात् स वत्सराजो, बलाद्धठाद, दुर्दान्ता दुःखेन दमनीया अत्युग्रा इत्यर्थः । ये 25 मौलभूमीशास्तद्देशनिवासिनृपास्तान्निस्य निष्कास्य, गजाश्वादिबलं गजवाजिप्रमुखसैन्यं सजीचक्रे सावधानीचकार । किम्भूतः? बली बलं स्थाम अस्या अस्तीति बली । 'बलं रूपे स्थामनि स्थौल्यसैन्ययोः' इत्यादि ॥ १२४
शरमण्डलसम्पर्काद् राजेवायं सुराजसूः।
दिने दिने परां प्रापोन्नति प्राप्तो परां दिशम् ॥ १२५ व्याख्या- अयं सुराजसूः शोभनो राजा सुराजो योधाभिधो भूधवः स सूते यं स सुराजसूः । 'सत्सूद्विषेति ३० क्किए । विक्रमः शूरमण्डलसम्पर्कात् शूराणां वीराणां यन्मण्डलं समूहस्तस्य सम्पर्कात् संयोगात्, दिने दिनेऽपरां दक्षिणदिशोऽन्यां दिशमुदीची प्राप्तः सन् परामुत्कृष्टामुन्नतिमुदयं प्राप । क इव ? राजेव चन्द्र इव । यथा राजा शूरमण्डलसम्पर्कातू सूर्यमण्डलसंयोगतोऽपरां पश्चिमां दिशं प्राप्तः सन् दिने दिने परामुन्नतिं प्राप्नोति । चन्द्रो हि दर्शे रविणा संयुज्यते, तत्र कविकल्पनेयम् - चन्द्रः कलाविकलः सन्नमावास्यायां रविमुपससर्प । प्रोक्तं चन्द्रेण हे वे! त्वं सहस्रकरोऽसि मां दुःस्थमनुगृहाण । ततो रविणा खगृहागतं क्षीणकलं शशिनं विलोक्योपकृतये खघृणिर्ददे, ततः शुक्लद्वितीयादिषु दिदीपे चन्द्रः ॥ १२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org