________________
३४-३९]
पाठकश्रीजयसीमविरचित खामिनि परलोकंगते न दोषदोऽस्याः परोपभोगोऽपि ।
सूर्येऽस्ताद्रिमुपेयुषि तमोभिराक्रम्यते प्राची ॥ ३४ व्याख्या-खामिनि प्रभौ, परलोकगते परलोकं प्राप्ते, अस्या भुवः, परोपभोगोऽपि पूर्वस्वामिनोऽन्यः परस्तेन य उपभोगः सेवनं सोऽपि, न दोषदो न दोषावहः । यदा खप्रमुयुद्धा खःप्राप्तो भवति तदेयं भूरन्येन चेद्भुज्यते तदा न कोऽपि दोषः । यस्मात् सूर्ये रषौ, अस्तादिमस्ताचलमुपेयुषि प्राप्ते, प्राची पूर्वा दिक्, तमोमिरन्धकारैराक्रम्यतेऽभिभूयते ।। अत्र को दोषः । यतः___'पातः पूष्णो भवति महतां नोपतापाय यस्मात् , कालेनास्तं क इह न गताः के न यास्यन्ति चान्ये ।
एतावत्तु व्यथयति पुरा लोकबाडैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १ तथाऽत्रापि ॥ ३४
तत्सुभटाः सुतवनितादासीदासादिकं निजं निखिलम् ।
बालमबालममलसात् कृत्वाऽमुस्तेऽभ्यमित्रीणाः ।। ३५ . व्याख्या-ते तत्सुभटास्तस्य श्रीकर्णस्य सुभटा योधाः, सुतवनितादासीदासादिकं निजमात्मीयं, निखिलं समस्तं बालमर्भकम्, अबालं वृद्धम् , अनलसादग्यायत्तं कृत्वा, अभ्यमित्रीणां अभ्यमित्रीया अभुर्दीप्यन्ते स्म । लोकरूढ्या 'जु हरे विधाय रणायोपतस्थिरे। 'अभ्यमित्र्योऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरिं वजन् । आभिमुख्येनामित्रानलंगामी अभ्यमित्रीणः ॥ ३५ ॥
रणरसिको रणकेलिं विधाय धैर्य निधाय निजचित्ते ।
खामी हस्त्यारूढो वोढा खर्गश्रियः समभूत् ।। ३६ व्याख्या-रणरसिको रणकुतुकीं; स्वामी श्रीकर्णो, निजविते खद्ददि, धैर्य स्थिरता, निधाय स्थापयित्वा, रणकेलिं रणक्रीडा, विधाय कृत्वा, हत्यारूढो गजारूढः सन् , खर्गश्रियः खर्गलक्ष्म्या, वोढा धारकः समभूजातः ।
'दधते दधाति धरति च धारयति वहति कलयति च' इति क्रियाकलापे। रण रसों रागोऽस्याऽस्तीति रणरसी । साथै कप्रत्यये रणरसिक इति ।। ३६
तदवसरे कुलगेहे खसुतचतुष्टययुता गता पत्नी।
प्रागेव षे(खे)डिनगरे गतविधुरे निजजनाहूता ॥ ३७ व्याख्या-तदवसरे तस्मिन् समये 'जुहर प्रस्तावे, प्रागेव साहिसैन्यागमनात् पूर्वमेव, गतविधुरे विलीनेष्टवस्तुवियोगे, षे(ख)डिनगरे महेवाभिधपुरोपकण्ठपुरे, निजजनाहूता खकुलगृहखजनजनाकारिता, खसुतचतुष्टययुता आत्मीयसमधरा- 22 दिपुत्रचतुष्टयसमेता, पनी रत्नादेवी, कुलगेहे मातापितगृहे, गताऽभूदिति गम्यते । विधुरं स्यात् प्रविश्लेषे विकले इत्यनेकार्थः । प्रविश्लेष इष्टवस्तुवियोगः ॥ ३७
दुर्गमपि तदनु जगृहे दुर्ग श्रीसाहिसेनया घेन ।
धनिकवियुक्तं स्थानं खल्पबलेनापि संसाध्यम् ॥ ३८ व्याख्या- तदनु पश्चात् श्रीकर्णस्य वर्गारोहामन्तरम्, श्रीसाहिसेनया श्रीगोरिपातसाहिसैन्येन, दुर्गमपि " दुर्गममपि दुर्ग कोट्टो जगृहे गृहीतं स्वीकृतम् । खाज्ञा तत्र प्रवर्तितेत्यर्थः । एतदेव वचनभाया स्पष्टयति- येन कारणेन, धनिकवियुक्तं खामिविरहितं, स्थान कोद्वादिसन्निवेशः, खल्पबलेनाप्यल्पसैन्येनाप्यल्पसामर्थ्येनापि वा संसाध्यं प्राह्यम् । अयं हि महाबलसाहिस्तत्र किं वाच्यम् ॥ ३८
अथ तन्त्र सुतैः सहिता ससुखं तस्थौ पितुर्गुहे राशी । . पुत्राश्चत्वारोऽपि हि क्रमतो वृद्धिं पर प्रापुः ॥ ३९ म. क.०प्र०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org