SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १०८ ठकुरफेरूविरचित ज्योतिषसार ग्रन्थान्ते लिखितानि कानिचित् पद्यानि उत्तरायां महिषीनाम योगिनी योगनामिनी । दशम्यां च द्वितीयायां उदयं कुरुते सदा ॥३ एकादश्यां तृतीयायां मेषरूदा तु योगिनी । कुमारी नामविज्ञेया आग्नेयी दृश्यते यथा ॥४ श्वानपृष्ठिगता देवी चतुर्थी द्वादशी तथा। नैर्ऋत्यां दिशमासृत्य सिंहनारायणी सदा ॥५ वाराही योगिनी नाम सिंहारूढा सुदुर्धरा। पंचम्यां त्रयोदश्यां च दक्षिणे उदयं सदा ॥६ वारुण्यां दिशमासृत्य ब्राह्मणी घृषगामिनी । चतुर्दश्यां तु षष्ठयां च उदयं कुरुते सदा ॥७ चटित्वा तु खरपृष्ठिं चामुंडी चण्डरूपिणी । सप्तम्यां पूर्णिमायां च वायव्ये उदयं सदा ॥८ महालक्ष्मी महादेवी ईशान्यां वृषसंस्थिता । काके रूढा सदा देवी अमावास्याष्टमीदिने ॥९ एवं तु योगिनीचक्रं ज्ञायते यस्तु मानवः । विजयं लभेत् संग्रामे युद्धेषु रणसंकटे॥ द्यूते वा विवहारे वा विवादे जायते शुभम् ॥ श्वानकुर्कुटनालानां मेषेण महिमादिषु । विजयं जायते तस्य यस्य पृष्ठे तु योगिनी ॥ अथ सन्मुखयोगिन्यां संग्रामेषु रणेषु च । गम्यते युज्यते पुंसां न सिद्धिर्जायते कचित् ॥ ॥ योगिनी चक्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003399
Book TitleRatnaparikshadi Sapta Granth Sangraha
Original Sutra AuthorN/A
AuthorThakkur Feru, Agarchand Nahta, Bhanvarlal Nahta
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1996
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy