SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [१९ ७. १८] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। वीर श्रीमहमूदसाहनृपते त्वत्कुञ्जराणां पुन निोद्रेकलसत्प्रवाहनिवर्हः पूर्णा न जाताः कति ॥१२॥ राजन् स्यन्दनमण्डलानि बहुधाऽऽव पृ० २४ A]तंभ्रमं बिभ्रति क्रूरा: संयति कोटिशश्च सुभटा: कुर्वन्ति नक्रोचितीम् । कल्लोलश्रियमावहन्ति तुरगा द्वीपोपमा दन्तिनो मज्जन्ति द्विषतां कुलांनि बलिनां त्वत्सैन्यवारांनिधौ ॥१३॥ धावत्तावकवाजिराजिखुरलीक्षुण्णमामण्डली धूलीवातनिपातपीतसलिले सद्यः स्थलत्वं गते । वीर श्रीमहमूदसाहनृपते त्वत्तोऽधुना तोयधौ भूयः सेतुपथप्रबन्ध कितो लङकापतिः शकते ॥१४॥ .. पश्यन्तो बहुरूपिणामभिनयं त्वद्वैरिणः स्वेच्छया वीर श्रीमहमूदसाह सहसा ध.टी*भिरावेष्टिताः । ऋक्षाकारभृतोऽथ मर्कटमुखाः केविच्च कापालिकाः योषिद्वेषभृतो नटैनिजगृहान् निर्यान्ति नियन्त्रणम् ॥१५॥ त्यक्ताः शृङ्खलिता द्विषाः परिहृता वाहोत्तमाः संयता मञ्जूषाः[पृ० २४ B] समुक्षिताः समगपः कोशालयैः सार्गलैः । पुर्य स्वाभिमुखं प्रकीर्गवियणा नो दीक्षिता एव तैः सर्वस्वर्पगतत्परैस्तव परैः स्वं रक्षितुं जीवितम् ॥१६॥ त्रुट्यद्भिर्मणिमे बलागुणशतैहरिश्च कण्ठच्युत विस्रस्तै रवतंसकैः प्रतिपदं भ्रष्टैः पुनर्नूपुरै : । कान्तारेऽपि पथि प्रसाधन धिर्धावत्तरैरग्रतो - नाथ त्वत्परिपन्थिनां कुलवधूवर्गः समारभ्यते ॥१७॥ अद्रेः कन्दरमाश्रयन्ति रिपवस्तन्मन्दिरं मर्कटा स्ते दुःसंस्तरशायिनः परममी दोलासु केलीपराः ।। ते भ्राम्यन्ति वनान्तरेषु विहरन्त्युद्यानमालास्वमी स्वामिस्त्वद्भुजविक्रमेण जनितं तद्भाग्यमप्यन्यथा ॥१८॥ आरोहन्ति गिरि विशन्ति विपिनं भ्राम्यन्ति दिक्प्रान्तरे पारावारमहो तरन्ति परितो द्वीपान्त[पृ० २५ A]रं यान्ति च । * घाटी-धाड़ इति लोके । (१) कण्ठश्च्युत इति प्रतो । (२) विश्रस्तरिति प्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003398
Book TitleRajvinod Mahakavyam
Original Sutra AuthorN/A
AuthorUdayraj Mahakavi, Gopalnarayan Bahura
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1956
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy