________________
९२७] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । [१३
अलंकृतं षोडशभिः पदैरियं समग्रसूडक्रमगानपण्डिता । प्रबन्धमेलाख्यमखण्डलक्षणं विचक्षणा गायति भूपतेः पुरः ॥१४॥ पदैरुदाविरुदैः स्वरैरपि स्फुटैश्च पाटेरतिहर्षवर्द्धनम् । . अमुष्य राज्ञः कलकण्ठभाषिणी कुतूहलाद् गायति हर्षवर्द्धनम् ॥१५॥ प्रियेण वृत्तैः स्वयमेव निर्मितैः स्वयं च कण्ठाभरणीकृतैरियम् । शुचिस्मिता गायति वीणया समं मनोरमं रागकदम्बकं मुदा ॥१६॥ इयं विशन्ती नवरङ्गमङ्गना स्फुरत्प्रसूनैः परिपूरिताञ्जलि: ।[पृ० १७ A] प्रियस्य सौन्दर्यविनिजितात् स्मरात् स्वयं ग्रहीतैरिव भाति मार्गणे :॥१७॥ समुल्लसन्ती करपल्लवश्रिया स्मितेन तन्वी कुसुमानि तन्वती। इयं कटाक्षभ्रमरोपशोभिता मनोभुवः कल्पलतेव नृत्यति ॥१८॥ विधाय विश्राम्यति नृत्यमेकिका परानुसन्धानपरा च नृत्यति । समानसौन्दर्यविशिष्टयोयोविविच्यते नैव परापरक्रमः ॥१९॥ समानलावण्यवयोविभूषणा: प्रतन्वते लास्यविलासमङ्गनाः । इमाः सुसङ्गीतकलाकुतूहलात् करोति मन्ये बहुरूपविभ्रमम् ॥२०॥ ..." प्रदर्शयन्त्यो वदनैः सुधानिधेः स्फुटं वपुर्वृहमुदारकान्तिभिः । शयैर्दधत्यश्च कुशेशयश्रियं विवृण्वते भावमपूर्वमङ्गनाः ।।२१॥ यथाङ्गहारैर्हरिणेक्षणाः क्षणान् नवं नवं बिभ्रति विभ्रमोदयम् । तथातिदादधुना पुरद्विषो जयाय सज्जीभवतीव मन्मथः ॥२२॥[पृ० १७ B] गतानि लीलाललितानि शिक्षितुं नितम्बिनीनां चरणाब्जसङ्गतैः । कलं क्वद्भिर्मणिहंसकावलिच्छलेन हंसैरभिरम्यते मनः ॥२३॥ समुच्चयभूषणरत्नरोचिषां स्फुटं दधाना: परिवेषमुज्ज्वलम् । नतभ्रुवो बिभ्रति नेत्रवाससस्तिरस्करिण्यन्तरिता इव भ्रमीः ॥२४॥ समीरणः पल्लवलालनोद्गतः प्रसक्तनृत्यश्रमवारिहारिभिः । करोति रङ्गाङ्गणकेलिवाटिका वधूजनानां व्यजनौचितीमिव ॥२५॥ प्रियस्य सङ्गीतरसे मनो मनाक् प्रसक्तमाकर्षति चारुहासिनी । इयं चलच्चामरचारुदोर्लता समुल्लसत्काञ्चनकङकणक्वणैः ॥२६॥ प्रकृष्टरोमाञ्चसमुच्छ्वसत्तरस्तनद्वयाभोगविगाढबन्धनम् । इयं सुनेत्रा प्रियपाणिनापितं बिभर्ति रत्नावलिचारुकञ्चकम् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org