________________
प्राकृतानन्द
ग्रहे दी? वा ॥ ४०९॥ स्पष्टम् । गृह्यते गाहिज्जइ । पक्षे गेण्हिवइ । ॥इति भावकर्मप्रकरणम् ॥ इति तिङन्तम् ॥
क्ते हुः ॥ ४१० ॥ भुवो हुरादेशः स्यात् क्ते । भूतं हुअं।
ते तुरः॥ ४११॥ त्वरतेः तुर इत्यादेशः स्यात् क्ते।
क्ते ॥ ४१२ ॥ धातोरन्त्याकारस्य इः स्यात् क्ते । त्वरितं तुरिअं । पटितं फलिअं।
_क्तेन दिण्णादयः ॥ ४१३ ॥ दिण्ण इत्यादयः शब्दाः तेन सह निपात्यन्ते । दाम् दत्तं दिण्णं । रुदिर रुदितं रुण्णं । त्रसी त्रस्तं हित्थं । दह भस्मीकरणे दग्धं डहूं। रक्ष रक्तं रत्तं । दंश दष्टं डढें । रुधिर् रुद्धं रुहूं इत्यादयः ।
भुजादीनां क्त्वा-तुमुन्-तव्येषु लोपः ॥ ११४ ॥ एषामन्तस्य लोपो वा स्यात् । ।
क्त्व ऊणः ॥ ४१५ ॥ त्वाप्रत्ययस्य ऊण इत्यादेशः स्यात् । भुक्त्वा भोऊण। भोक्तम् भोउं । भोक्तव्यम् भोअवं । विदित्वा वेऊण । वेत्तुम् वेडं। वेत्तव्यम् वेअचं । एवं रुदिर।
घे क्त्वा-तुमुन्-तव्येषु ॥ ४१६ ॥ ग्रहेः घे इत्यादेशः स्याद् एषु परेषु । गृहीत्वा घेऊण । ग्रहीतुम् घेउं । ग्रहीतव्यम् घेअवं । कृत्वा काऊण । कर्तुम् काउं । कर्त्तव्यम् काअवं ।
तृन इरः शीले ॥ ४१७ ॥ शीलार्थे तृन इर इत्यादेशः स्यात् । गन्ता गमिरो, गमनशील इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org