________________
[अथ द्वितीयः परिच्छेदः।]
भू सत्तायाम्।
भुवो हो-हुवौ ॥ ३१६ ॥ भूधातोः हो हुव इत्येतावादेशौ स्याताम् ।
ते-तिपोरिदेतौ ॥ ३१७ ॥ धातोः परयोः ते तिप् इत्येतयोरिदेतौ स्याताम् । यथासंख्यं नेष्यते ।
। अत ए से ॥ ३१८ ॥ नियमार्थ वचनम् । त-तिपोः सिप्-थासो? ए से इत्येतावादेशी विहितौ तावकारान्तादेव स्याताम्, नान्यस्मात् ।
लादेशे वा ॥ ३१९ ॥ लकारादेशे परे अत एत्वं वा स्यात् । भवति होइ हुवइ हुवए हुवेइ हुए।
वर्तमान-भविष्यदनद्यतनयोज ज्जा वा ॥ ३२० ॥
तमाने भविष्यदनद्यतने च विध्यादिषु चोत्पन्नस्य प्रत्ययस्य न जा इत्येतावादेशौ वा स्याताम् । होज होजा। लि-लो-लुट् - लड़े विध्यादयः।
मध्ये च ॥ ३२१ ॥ वर्तमान-भविष्यदनद्यतनयोर्विध्यादिषु च धातु-प्रत्यययोर्मध्ये न ज्जा इत्येतावादेशौ वा स्याताम् । भवति- होजइ होज्जेइ होजाइ, पक्षे पूर्वमुक्तम् ।
नानेकाचः ॥ ३२२ ॥ वर्तमान-भविष्यदनद्यतनयोर्विध्यादिषु चानेकाचो धातोः परतो मध्ये ज जा इत्येतावादेशौ न स्याताम्। भवति हुवज हुवेज हुवजा हुवेजा। एवमग्रेऽपि पूर्वोक्तलेषुप्रथम-द्वितीय-तृतीयेषु पुरुषेषु एकवचन-द्विवचनबहुवचनादावस्यवगन्तव्यम् ।
न्ति-हेत्था-मो-मु-मा बहुषु ॥ ३२३ ॥ तिङो बहुवचनानामेते आदेशाः स्युः। प्रथमपुरुषबहुवचनस्य न्ति, मध्यमस्य ह इत्था एतौ, उत्तमस्य मो मु म एते इति विवेकः। भवतः भवन्ति =होन्ति हुवन्ति हुवेन्ति हुवज हुवेज हुवजा हुवेजा होज होजा होजन्ति होजेन्ति होजान्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org