________________
पण्डित - रघुनाथ - कवि - विरचित
ङौ तुमम्मि ॥ २६३ ॥
युष्मदः तुमम्मि इत्यादेशः स्यात् ङ्या सह । त्वयि तुमम्मि तइ तए तुम तुए ।
३२
तुज्झेसु तुम्हेसु सुपि ॥ २६४ ॥
युष्मद् एतौ स्यातां सुपा सह । युष्मासु तुज्झेसु तुम्हे । अस्मदो हमहमह सौ ॥ २६५ ॥
स्युः प्रथमैकवचनेन सह । अहम् हं अहं अहअं । अहम्मिरमि च ॥ २६६ ॥
अस्मदः प्रथमैकवचन द्वितीयैकवचनाभ्यां सह आदेशः स्यात् । अहं अहम्मि ।
अस्मद एते
अम्हे जस- शसोः ॥ २६७ ॥
अस्मदः अयमादेशः स्याद् जसा शसा च सह । वयं अम्हे । मं ममं ॥ २६८ ॥
अस्मद एतावादेशौ स्याताम् । माम् अहम्मि मं ममं । 'अहम्मिरमि च' (२६६ ) इत्यतो 'अमि' इत्यनुवर्त्तते । 'चानुकृष्टं नोत्तरत्र' इति परिभाषया चानुकृष्टानां हं-आदीनां नानुवर्तनम् ।
णे शसि ॥ २६९ ॥
अस्मदो णे इत्यादेशः स्यात् शसा सह । अस्मान् अम्हे णे । आङ मे ममाइ ॥ २७० ॥
अस्मदः एतौ स्तः टया सह । मया मे ममाइ । ङौ च मइ मए ॥ २७१ ॥ अस्मदः एतौ स्तः डि-टाभ्यां सह । मया मइ मए । अम्हेहिं भिसि ॥ २७२ ॥
अस्मदः अयं स्याद् भिसा सह । अस्माभिः अम्हेहिं । तो मतो ममादो ममादु ममाहि ङसौ ॥ २७३ ॥ अस्मद एते स्युः ङस्या सह । मत् मत्तो महत्तो ममादो ममादु
ममाहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org