SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पण्डित-रघुनाथ-कवि-विरचित तालवृन्ते ण्ठः ॥ २०७॥ युक्तस्य ण्ठः स्यात् । तालवृन्तकं तालवेण्ठ तलवेण्ठअं। आम्र-ताम्रयोर्बः ॥ २०८ ॥ अनयोरनादेः वः स्यात् । आनं अंबं । तानं तंबं । क्लिष्टं किंलिहूं। रत्नं रअणं । 'क्लिष्ट-श्लिष्ट' (१७१) इति विप्रकर्षः तत्स्वरता च । उदुम्बरे दोर्लोपः ॥ २०९ ॥ अत्र दु इत्यस्य लोपः स्यात् । उदुम्बरं उंबरं । __ कालायसे यस्य वा ॥ २१०॥ अत्र यस्य वा लोप: स्यात् । य इति विशिष्टग्रहणम् । कालायसं कालासं कालाअसं, लोपाभावपक्षे 'क-ग' (१०) इति यकारमात्रलोपः। मलिने लिनोरिलौ वा ॥ २११ ॥ मलिनशब्दे लि इत्यस्य इ. स्यात्, न इत्यस्य लः स्याद् वा । मलिनं मइलं मलिणं। - गृहे घरोऽपतौ ॥ २१२ ॥ गृहशब्दस्य घर इत्ययमादेशः स्यात्, न तु पतौ परे । गृहं घरं । अपताविति किम् ? गृहपतिः गहवई । पीतं पी। धनं धणं । वृन्दे वो रः ॥ २१३ ॥ वृन्देशब्दे वात् परः स्वार्थे रो वा स्यात् । बंदं वंदं । . आलाने न-लोः॥ २१४ ॥ अत्र नकार-लकारयोः स्थितिपरिवृत्तिः स्यात् । आलानं आणालं । दाढादयो बहुलम् ॥ २१५ ॥ दाढा इत्यादयः शब्दाः बहुलं निपात्यन्ते । चातुर्य चाउलिअं । पृष्टं पुढें । इदानीं एहि । दुहिता दिद्धी। मण्डूकः मण्ड्ररो। कमलं कंदोहो। गोदावरी गोला । ललाटं लडालं णिडालं। आकृतिगणोऽयम् । 'सु-भिसू०' (१३८) इति दीर्घ प्राप्ते न नपुंसके ॥ २१६ ॥ क्लीवे प्रथमैकवचने दी? न । वारि वारिं । वारीणि वारीइं । पुनस्तद्वत् । शेषं पुंषत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003397
Book TitlePrakrutanand
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1962
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy