________________
पण्डित-रघुनाथ-कवि-विरचित,
ष्टस्य ठः ॥ १७५ ॥ ष्ट इत्यस्य ठकारः स्यात् । गृष्टिः गिट्ठी । दृष्टिः दिट्ठी । सृष्टिः सिट्ठी। चतुर्वपि ऋष्यादित्वाद् इत्वम् । आकृतिः आइदी; ऋष्यादित्वाद् इ., आउदी, ऋत्वादित्वाद् उः। सुकृतिः सुइदी, ऋष्यादौ कृतिशब्दपाठात् । संवृतिः संवुदी । प्रतिपत्तिः पदिवत्ती, 'प्रतिसर०' (३३) इति तु न, ऋत्वादिपाठेन बाधात् । वसतिः वसही, 'वसति-भरत०' (८१) इति हः।
यष्टयां लः॥ १७६ ॥ ' आदेलः स्यात् । 'आदेखें जः' (३९) इति जापवादः । यष्टिः लट्ठी। कीर्तिः कित्ती, 'तस्य टः' (११५) इति टे प्राप्ते धूर्तादित्वाद् न । मूर्तिः मुत्ती । वितर्दिः विअड्डी । विच्छर्दिः विच्छड्डी । उभयत्रापि 'गर्दभ०' (१) इति डः, 'शेषा-ऽऽदेश' (३५) इति द्वित्वम् । कुक्षिः कुच्छी, अक्ष्यादित्वात् छः। स्थितिः थिई। मनस्विनी मणंसिणी, समृद्ध्यादित्वाद् वा आकारः, वक्रादित्वादनुखारः।
ईदूतोहखः॥ १७७ ॥ .. सम्बुद्धौ । [हे मनखिनि] हे माणंसिणि । मनखिनीम् माणंसिणिं, 'अमि हसः' (१५८) इति हखः । वल्ली वेल्ली, शय्यादित्वाद् एकारः । -
चतुर्थी-चतुर्दश्योस्तुना ॥ १७८ ॥ अनयोस्तुशब्देन सह आदेः अतः ओत्वं वा स्यात् । चतुर्थी चोत्थी चउत्थी । चतुर्दशी चोदही चउद्दही । 'दशादिषु०' (१००) इति हः । पृथिवी पुहवी, ऋत्वादित्वाद् उः, 'अत् पथि०' (१६५) इति ।
उः पद्म-तन्वीसमेषु ॥ १७९ ॥ . - पद्मशब्दे तन्वी इत्येवंरूपेषु च युक्तस्य विप्रकर्षः स्यात्, पूर्वस्य उकारः । गुर्वी गरुई, मुकुटादित्वाद् अः। शफरी सभरी, 'श-षोः सः' (४४) 'फो भः' (९१) । अङ्गुरी अङ्गुली, "हरिद्रादीनां०' (६०) इति रेफस्य लः।
बिसिन्यां भः ॥ १८० ॥ आदेः। बिसिनी भिसिणी । स्त्रीलिङ्गनिर्देशः किम् ? बिसं । षष्ठी छट्ठी, 'षट्-शावक०' (९९) इति छः । सप्तमी सत्तमी । कर्तरी कत्तरी, "तस्य टः"(११५) इति प्राप्ते धूर्त्तादित्वाद् न । लक्ष्मी लच्छी, अक्ष्या दित्वात् छः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org