________________
Jain Education International
भाषा द्विधा संस्कृता च प्राकृता चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता भवेत् ॥ १
इयं तु देवतादीनां मुनीनां नायकस्य च विप्रक्षत्रियविट्शूद्र मन्त्रिकञ्चुकिनामपि ।। २
गार्ग्यगालवशाकल्यपाणिन्याद्या यथर्षयः । शब्दराशेः संस्कृतस्य व्याकर्त्तारो महत्तमाः ॥ ३
तथैव प्राकृतादीनां षड्भाषाणां महामुनिः । श्रादिकाव्यकृदाचार्यो व्याकर्त्ता लोकविश्रुतः ॥ ४
यथैव रामचरितं संस्कृतं तेन निर्मितम् । तथैव प्राकृतेनापि निर्मितं हि सतां मुदे ॥ ५
पाणिन्याद्यैः शिक्षितत्त्वात्संस्कृती स्याद्यथोत्तमा । प्राचेतसव्याकृतत्वात्प्राकृत्यपि तथोत्तमा ।। ६
--mmmm
For Private & Personal Use Only
www.jainelibrary.org