________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः ।
इण् । 'अणश्चे' ति निर्देशाय णकारः । एति उपैति इतः, यन्ति । 'इण'ति यत्वम् । ऐत्, ऐताम्, आयन् । इयाय, ईयतुः, ईयुः । इययिथ । इयेथ । 'इणो गा', अगात्, अगाताम्, अगुः । 'इणोऽनुपसृष्टस्य' इति ईयात् । अन्वियात् । एता । ईयते । अगायि । अगासाताम्, अगायिषाताम् । एष्यते । आयिष्यते । 'सनीणिङोर्गमिः,' जिगमिषति । इत्वा, उपेत्य । इतः । प्रत्याययति ।
इक् । इण वेदिकोऽपीति विशेषणार्थः ककारः । इङिकावधिपूर्वकावेव प्रयुज्येते । अध्येति । अधीतः । अधियन्तीत्यादि पूर्ववत् ।
1
असु भुवि । 'अस्तेरादे' रित्यगुणे अलोपः । अस्ति, स्तः, सन्ति । असि, स्थः, स्थ । अस्मि, स्वः, स्मः । स्यात्, स्याताम्, स्युः । हौ एधि । आसीत्, आस्ताम्, आसन् । आसीः । रुचादित्वाद् व्यतिस्ते । ह एकारे वक्तव्यः, व्यतिहे । शतृङ् सन् । 'अस्तेर्भूरसार्वधातुके ।'
अन् रुदादित्वात् प्राणिति, प्राणितः, प्राणन्ति । अन प्राणने इति दैवादिकेन अन्यते ।
ऋ गतौ । इयर्त्ति इयतः, इति । इयृयात् । ऐयः । ऐयताम् । ऐयरुः । ऐयः । अणू, आरत् । 'ऋ प्रापणे चेति भौवादिकेन ऋच्छति । आर्च्छत् । आर्षीत् । आर । आरिथ । अर्यात् । अर्त्ता । अरिष्यति । रु० 'समोऽकर्मकः ।' समियते । समृच्छते । अरिरिषति । अरार्यते । अर्यते । आरि, आर्षाताम् आरिषाताम् इत्यादि । अर्त्ता, आरिता । अरिष्यते । आरिष्यते । ऋतं निपातनात् । ऋणं देयद्रव्यम् । अर्पयति । इति परस्मैपदिनः ।
3
,
ईर गतौ कम्पने च । ई । ऐर्त्त । ईर क्षेपणे इति चौरादिकेन
ईरयति ।
ईड । ईहे । 'ईड्जनोः सध्वे चे 'ति इट्, ईडिषे, ईडिध्वम् । ईश । ईष्टे । ' सध्वोरिट्', ईशिषे, ईशिध्वम् ।
आस् । आस्ते । आसाञ्चक्रे । आसीनः, ईतस्यासः ।
इङ् । अधीते, अधीयाते, अधीयते। अधीयीत । अधीष्व । अध्यैत, अध्येयाताम्, अध्यैयत । अधिजगे । अद्यतनी - क्रियातिपत्योर्वा गीरादेश इष्यते, अध्यगीष्ट, अध्यैष्ट । गी अत्र दीर्घविधानाद् गुणो नास्ति । अध्येता । अधीयते। अध्यगायि, अध्यायि । अध्यगीषाताम्, अध्यगायिषाताम् । अध्यैपाताम्, अध्यायिषाताम् इत्यादि । 'इङ्घारिभ्यां शन्तङ्ङकृच्छ्रे', अधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org