________________
ठक्कुर संग्रामसिंह विरचिता
बाल शिक्षा
॥ ॐ नमः श्रीसरस्वत्यै ॥ श्रीमन्नत्वा परं ब्रह्म बालशिक्षा यथाक्रमम् । संक्षेपाद रचयिष्यामि 'कातन्त्रात्' शावम्मिकात् ॥ १॥ आदौ सौ ततः सन्धिः स्यादयः कारकॉणि च । समांसाश्वोक्तिविज्ञानं संस्कारस्त्यादयस्तथा ॥ २ ॥ इत्यष्टप्रक्रमोपेतामेतां कुर्वन्तु हृद्गृहे । कातत्रभास्कराभावे यथा दीपश्रियं जनाः ॥ ३ ॥
[प्रथमः सज्ञाप्रक्रमः।] 'सिद्धो वर्णसमाम्नायः।' वर्णसञ्ज्ञा*।
सज्ञासूत्राणि यथा-'तत्र चतुर्दशादौ खराः।' खर केता १४ । 'तत्र चतुर्दशादौ स्वराः।' स्वरसञ्ज्ञा। समान १० । 'दश समानाः।' समानसञ्ज्ञा । सवर्ण १० । तेषां द्वौ द्वावन्योऽन्यस्य सवर्णौ ।' सवर्णसञ्ज्ञा । हख ५ । 'पूर्वो ह्रखः।' हस्खसञ्ज्ञा । दीर्घ ५ । 'परो दीर्घः।' दीर्घसञ्ज्ञा। नामीआ १२ । 'खरोऽवर्णवों नामी।' नामिसञ्ज्ञा। संध्यक्षर ४ । 'एकारादीनि सन्ध्यक्षराणि।' सन्ध्यक्षरसञ्ज्ञा। व्यञ्जन ३३ । 'कादीनि व्यञ्जनानि ।' व्यञ्जनसञ्ज्ञा । वर्ग ५ क च ट त प । 'ते वर्गाः पञ्च पञ्च पश्च ।' वर्गसञ्ज्ञा। अघोष १३ । 'वर्गाणां प्रथमद्वितीया शषसाश्चाघोषाः।' अघोषसञ्ज्ञा घोषवंत २० । 'घोषवन्तोऽन्ये ।' घोषवन्तसञ्ज्ञा। 'अनुनासिका ङञ ण न माः।' अनुनासिकसञ्ज्ञा। . * वर्णाः ५२ तथा चोक्तम्ग्यानानि यस्त्रिंशत् स्वराश्चैव चतुर्दश । अनुस्खारविसर्गौ च जिह्वामूलीय एव च ॥ १॥ गजकुम्भाकृतेर्वर्णः प्लुतश्च परिकीर्तितः । एवं वर्णा द्विपञ्चाशन् मातृकायामुदाहृताः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org