________________
२३२
[ ९३०-९४१
[९३०] [९३१]
[९३२]
[९३३]
10
षडावश्यकबालावबोधवृत्ति हरिराज-हेमराजौ, देवपालस्य नन्दनौ । . जज्ञाते हरिराजस्य, रासलदे च गेहिनी ॥१७॥ शुक्ताविव मुक्ताभौ तत्कुक्षावभवतां प्रचुरत्तौ। पुत्रौ ख्यातौ चाहड-धन्धकाख्यौ च ठक्कुरौ ।। १८ ॥ राजानुग्रहशालिना गुणवता लक्ष्मीवता धीमता स्थाने चाहडठक्कुरेण विदधे तीर्थो नतिः सद्गुरौ। देवे चाहति भक्तिरद्भुततमा साधर्मिकोपक्रिया पोढाऽवश्यककर्मकर्मठहृदां ह्येतद्धिकर्मोचितम् ॥१९॥ तत्पत्नी सहजलदे समचित्ता समजनिष्ट सुकृतेषु । अनयोस्तनयाः सिंहानयनविजयजवणकर्णेभ्यः॥२०॥ व्यधितविजयसिंह स्तीर्थयात्रादिकार्ये, स्वधनमानिधनं राक् सप्तक्षेत्र्यां वपन् यः। अणहिलपुरमध्येऽभ्यत्य भक्तिं व्यकासीज्जिनकुशलगुरूणां स्थापनावादरोधात् ॥ २१॥ मदनपाल तनया वीरमदे विजयसिंह दयिताऽजनि धुर्या।। पूर्णिनीति वरदेव तनूजा तस्य भीरुरपरापि पराङ्गी ॥ २२ ॥ रत्नगर्भे च पुरत्ने सुतौ प्रास्त चादिमा। राजमानसु तेजस्कौ महापौ त्रासवर्जितौ ॥ २३ ॥ बलिराजस्तयोज्येष्ठो, गिरिराजः कनिष्ठकः। । शुभावुभावपि स्निग्धावाश्विनीतनयाविव ॥२४॥ उदयकमलाश्वपरतो, राजाः साधारणश्च चत्वारः। पूर्णिन्या वाणन्याः पुत्रा राजन्ति गुणविदिताः ॥२५॥ शीलशालीन्यकोलीन्याऽमालिन्यगुणमालिनी। . बलिराजस्य भायोऽभूत् कोल्हाधी धीविशालिनी ॥२६॥ जिनधर्मानुरक्ताया भक्तायाः पत्युरुत्तमः । क्षेमसिंहः सुतस्तस्य जज्ञे हीरू च तत्प्रिया ॥२७॥ लक्षराजः सुतस्तस्य गर्भश्रावकताशुतः । अनुस्यूतेव यद्बुद्धिर्जिनधर्मेण राजते ॥ २८ ॥
[९३४]
[९३५]
[९३६]
20
[ ९३७]
[९३८]
[ ९३९]
25
[९४०]
[९४१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org