________________
१३१
श्रीजिनप्रभसूरिकताः स्तुतयः श्रीजिनप्रभसूरिकृतं मथुरायात्रास्तोत्रम् ।
सुराचलश्रीजिति देवनिर्मिते स्तूपेऽभिरूपे वरदो(द) कृतास्पदौ । सुवर्णनीलोपलकोमलच्छवी सुपार्थ-पाधों मुदित[:] स्तवीमि वाम् ॥१॥ पृथ्वीसुतोऽपि त्रिजगजनानां क्षेमकरस्त्वं भगवान् सुपार्श्व । अपि प्रतिष्ठाङ्गरुहस्तमीश कथं च लोके जनितप्रतिष्ठः ॥२॥ पार्श्वप्रभो येन मनोभिरामत्वन्नाममत्रसरणैकतानाः । उच्चञ्चलच्चञ्चलतागुणाया भवन्ति ते मन्दिरमिन्दिरायाः ॥३॥ महीतलास्फालनघृष्टभालः सुपार्श्व ! सर्पत्पुलकैर्विशालः । कदा त्वदंहि प्रणिपातकर्मप्रमोदमेदखिमना [नमामि ॥ ४ ॥ यात्रोत्सवेषु प्रभुपार्श्व! तेत्रागतस्य संघस्य चतुर्विधस्य ।। उत्क्षिप्यमाणागुरुधूपधूमव्याजेन निर्यान्ति तमासमूहाः ॥५॥ समुच्चरमशिखप्रदीपच्छलेन वां सेवितुमागता अमी । शिरश्वकाशन्मणयः फणाभृतो निजं कृतार्थाः प्रतियान्ति मन्दिरम् ॥६॥ रुजा भुजङ्गार्णवदावदन्तिनो मृगाधिपस्तेन नरेन्द्रसंयुगाः। पिशाचशाकिन्यरयश्च तन्वतो भियं न तस्य स्मरतीह यो युवाम् ॥ ७॥ पादारविन्दं सुरवृन्दवन्धं वन्दारवो ये युवयोरनिन्धम् । देवी कुबेरा विपदस्तदीया समूलकाषं कषति प्रसन्ना ॥८॥ यौष्माकवीक्षारसमझनेत्रप्रसारिहर्षाश्रुभिराम्भसीकाः। ज्वलन्तमन्तर्निचिताघवहिं निर्वाफ्यन्ते जगतीह धन्याः ॥९॥ इति स्तुति श्रीमथुरापुरीस्थयोः पठन्ति ये वां शठतां विनाकृताः। सुपार्श्वतीर्थेश्वर पार्श्वनाथ वा जिनप्रभद्रं पदमाप्नुवन्ति ते ॥१०॥
॥ इति श्रीमथुरायात्रास्तोत्रं समाप्तम् ॥
श्रीजिनप्रभसूरिकृता मथुरास्तूपस्तुतयः ।
श्रीदेवनिर्मितस्तूपशृङ्गारतिलकश्रियो । सुपार्श्व-पार्वतीर्थेशी क्लेशं नाशयतां सताम् ॥१॥ प्रमोदसंमदं पादपीठी लुठदधीश्वराः । कर्मालिनलिनीचन्द्राः......संभवंतु वः ॥२॥ मिथ्यात्वविषविक्षेपदक्षं सुमनसां प्रियम् । जिनास्यजलदे......जीयात् प्रवचनामृतम् ॥३॥ विनौषधातने निमा मधूपनशिरस्थिता । कुबेरा नरमारूढा मूढभावं भिनत्तु नः॥४॥
॥ श्रीदेवनिर्मित स्तूप] स्तुतयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org