SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ११६ विधिप्रपा। संगृणानामिके समीकुर्यात् - इति परमेष्ठिमुद्रा १. यद्वा वामकरांगुलीखवीकृत्य मध्यमां मध्ये कुर्यादिति द्वितीया २. पराङ्मुखहस्ताभ्यां वेणीबन्धं विधायाभिमुखीकृत्य तर्जन्यौ संश्लेष्य शेषांगुलिमध्येङ्गुष्ठद्वयं विन्यसेदिति पार्श्वमुद्रा । एता देवदर्शनमुद्राः। इदानी प्रतिष्ठाधुपयोगिमुद्राः- उत्तानौ किंचिदाकुंचितकरशाखौ पाणी विधारयेदिति अंजलि। मुद्रा १. अभयाकारौ समश्रेणिस्थितांगुलीको करौ विधायाङ्गुष्ठयोः परस्परप्रथनेन कपाटमुद्रा २. चतुरंगलमग्रतः पादयोरन्तरं किंचिन्न्यूनं च पृष्ठतः कृत्वा समपादः कायोत्सर्गेण जिनमुद्रा ३. परस्पराभिमुखौ प्रथितांगुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्रसार्य तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा ४. अत्रैवांगुष्ठद्वयस्याधः कनिष्ठिकां तदाक्रान्ततृतीयपर्विकां न्यसेदिति सबीजसौभाग्यमुद्रा ५. वामहस्तांगुलितर्जन्या कनिष्ठिकामाक्रम्य तर्जन्यग्रं मध्यमया कनिष्ठिकाग्रं पुनरनामिकया आकुंच्य मध्येऽ॥ ङ्गुष्ठं निक्षिपेदिति योनिमुद्रा ६. प्रथितानामंगुलीनां तर्जनीभ्यामनामिके संगृह्य मध्यपर्वस्थांगुष्ठयोर्मध्यमयोः सन्धानकरणं योनिमुद्रेत्यन्ये । आत्मनोऽभिमुखदक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधःपरावर्तितहस्ताभ्यां गरुडमुद्रा ७. संलगौ दक्षिणांगुष्ठाक्रान्तवामांगुष्ठौ पाणी नमस्कृतिमुद्रा ८. किंचिद्गर्मिती हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रा ९. जानुहस्तोत्तमांगादिसंप्रणिपातेन प्रणिपातमुद्रा १०. संमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमांगुष्ठकनिष्ठिकानां परस्परयोजनेन त्रिशिखामुद्रा' ११. पराङ्मुखहस्ता1s भ्यामंगुली विदर्थ्य मुष्टिं बवा तर्जन्यौ समीकृत्य प्रसारयेदिति भंगारमुद्रा' १२. वामहस्तमणिबन्धोपरि पराङ्मुखं दक्षिणकरं कृत्वा करशाखा विदर्य किंचिद्वामचलनेनाधोमुखांगुष्ठाभ्यां मुष्टिं बवा समुत्क्षिपेदिति योगिनीमुद्रा १३. ऊर्ध्वशाखं वामपाणिं कृत्वाऽङ्गुष्ठेन कनिष्ठिकामाक्रमयेदिति क्षेत्रपालमुद्रा १४. दक्षिणकरेण मुष्टिं बद्धा कनिष्ठिकांगुष्ठौ प्रसार्य डमरुकवच्चालयेदिति डमरुकमुद्रा १५. दक्षिणहस्तेनो/गुलिना पताकाकरणादभयमुद्रा १६. तेनैवाधोमुखेन वरदमुद्रा १७. वामहस्तस्य मध्यमांगुष्ठयोजनेन अक्षसूत्रमुद्रा ॥ १८. पद्ममुदैव प्रसारितांगुष्ठसंलममध्यमांगुल्यमा बिंबमुद्रा १९। एताः सामान्यमुद्राः। दक्षिणांगुष्ठेन तर्जनीं संयोज्य शेषाङ्गुलीप्रसारणेन प्रवचनमुद्रा २०. हस्ताभ्यां संपुटं कृत्वा अंगुलीः पत्रवद्विकास्य मध्यमे परस्परं संयोज्य तन्मूललमावंगुष्ठौ कारयेदिति मंगलमुद्रा २१. अंजल्याकारहस्तस्योपरिहस्त आसनमुद्रा २२. वामकरधृतदक्षिणकरसमालभने अंगमुद्रा २३. अन्योऽन्यान्तरिताङ्गुलिकोशाकारहस्ताभ्यां कुक्ष्युपरि कूपरस्थाभ्यां योगमुद्रा २४. उभयोः करयोरनामिकामध्यमे परस्परानभिमुखे 21 ऊर्वीकृत्य मीलयेच्छेषांगुलीः पातयेदिति पर्वतमुद्रा २५. करस्य परावर्तनं विस्मयमुद्रा २६. अंगुष्ठरुखेतरांगुल्यप्रायास्तर्जन्या ऊर्ध्वीकारो नादमुद्रा २७. अनामिकयांगुष्ठाग्रस्पर्शनं बिन्दुमुद्रा २८ । ॥ इति मुद्राविधिः ॥ ३७॥ ६११०. वाराही १ वामनी २ गरुडी ३ इन्द्राणी ४ आमेयी ५ याम्या ६ नैर्ऋती ७ वारुणी ८ वायव्या ९ सौम्या १० ईशानी ११ ब्राह्मी १२ वैष्णवी १३ माहेश्वरी १४ विनायकी १५ शिवा १६ शिव" दूती १७ चामुंडा १८ जया १९ विजया २० अजिता २१ अपराजिता २२ हरसिद्धि २३ कालिका २४ चंडा २५ सुचंडा २६ कनकनंदा २७ सुनंदा २८ उमा २९ घंटा ३० सुघंटा ३१ मांसप्रिया ३२ आशापुरा ३३ लोहिता ३४ अंबा ३५ अस्थिभक्षी ३६ नारायणी ३७ नारसिंही ३८ कौमारी ३९ वामरता ४० अंगा ४१ वंगा ४२ दीर्घदंष्ट्रा ४३ महादंष्ट्रा ४४ प्रभा ४५ सुप्रभा ४६ लंबा ४७ 1 A त्रिशिखिमुद्रा। 2 B भंगमुद्रा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003393
Book TitleVidhi Marg Prapa
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2000
Total Pages186
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy