SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मुद्राविधि । प्रसारिताधोमुखाभ्यां हस्ताभ्यां पादांगुलीतलामस्त कस्पर्शान्महामुद्रा १. अन्योऽन्यग्रथितांगुलीषु कनिष्ठिकानामिकयोर्मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारा धेनुमुद्रा २. दक्षिणहस्तस्य तर्जनीं वामहस्तस्य मध्यमया संदधीत, मध्यमां च तर्ज्जन्याऽनामिकां कनिष्ठिकया कनिष्ठिकां चानामिकया, एतच्चाधोमुखं कुर्यात् । एषा धेनुमुद्रेत्यन्ये विशिषन्ति । हस्ताभ्यामञ्जलिं कृत्वा प्राकामामूलपर्वागुष्ठसंयोजनेनावाहनी ३. इयमेवाधोमुखा स्थापनी ४. संलममुक्षुच्छ्रितांगुष्ठौ करौ संनिधानी ५. तावेव गर्भगांगुष्ठौ निष्ठुरा ६. उभयकनि - ष्ठिकामूलसंयुक्तांगुष्ठाग्रद्वयमुत्तानितं संहितं पाणियुगमावाहनमुद्रा ७ तदेव तर्जनीमूलसंयुक्तांगुष्ठद्वयावाङ्मुखं स्थापनमुद्रा ८. मुष्टिप्रसृतया तर्जन्या देवतामभितः परिभ्रमणं निरोधमुद्रा ९. शिरोदेशमारभ्याप्रपदं पार्श्वभ्यां तर्जन्योर्भ्रमणमवगुंठनमुद्रेत्येके । एता आवाहनादिमुद्राः ९ । बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योर्विस्फारितप्रसारणेन गोवृषमुद्रा १ | बद्धमुष्टेर्दक्षिणहस्तस्य प्रसा - रिततर्जन्या वामहस्ततलताडनेन त्रासनीमुद्रा १| नेत्रास्त्रयोः पूजामुद्रे । अंगुष्ठे तर्जनीं संयोज्य शेषांगुलि - प्रसारणेन पाशमुद्रा १. बद्धमुष्टेर्वामहस्तस्य तर्जनीं प्रसार्य किंचिदाकुंचयेदित्यकुशमुद्रा २. संहतोर्ध्वगुलि - वामहस्तमूले चांगुष्ठं तिर्यग् विधाय तर्जनीचालनेन ध्वजमुद्रा ३. दक्षिणहस्तमुत्तानं विधायाधःकरशाखाः प्रसारयेदिति वरदमुद्रा ४। एता जयादिदेवतानां पूजामुद्राः । ११५ वामहस्तेन मुष्टिं बद्धा कनिष्ठिकां प्रसार्य शेषांगुलीरंगुष्ठेन पीडयेदिति शंखमुद्रा १. परस्पराभिसुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमे प्रसार्य संयोज्य च शेषांगुलीभिर्मुष्टिं बन्धयेत् - इति शक्तिमुद्रा २. Is हस्तद्वयेनांगुष्ठतर्जनीभ्यां वलके विधाय परस्परान्तः प्रवेशनेन शृंखलामुद्रा ३. वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकांगुष्ठाभ्यां मणिबन्धं संवेष्ट्य शेषांगुलीनां विस्फारितप्रसारणेन वज्रमुद्रा ४. वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य करशाखाविरलीकृत्य प्रसारयेदिति चक्रमुद्रा ५. पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारौ विन्यसेदिति पद्ममुद्रा ६. वामहस्तमुष्टेरुपरि दक्षिणमुष्टिं कृत्वा गोत्रेण सह किंचिदुन्नामयेदिति गदामुद्रा ७. अधोमुखवामहस्तांगुलीर्घण्टाकाराः प्रसार्य दक्षिणकरेण मुष्टिं बद्धा तर्जनीमूर्ध्वा कृत्वा 20 वामहस्ततले नियोज्य घण्टावच्चालनेन घण्टा मुद्रा ८ उन्नतपृष्ठहस्ताभ्यां संपुढं कृत्वा कनिष्ठिके निष्कास्य योजयेदिति कमण्डलुमुद्रा ९. पताकावत् हस्तं प्रसार्य अंगुष्ठसंयोजनेन परशुमुद्रा १०. यद्वा पताकाकारं दक्षिणकरं संहतांगुलिं कृत्वा तर्जन्यंगुष्ठाक्रमणेन परशुमुद्रा द्वितीया ११. ऊर्ध्वदंडौ करौ कृत्वा पद्मवत् करशाखाः प्रसारयेदिति वृक्षमुद्रा १२. दक्षिणहस्तं संहतांगुलिमुन्नमय्य सर्पफणावत् किंचिदाकुंचयेदिति सर्पमुद्रा १३. दक्षिणकरेण मुष्टिं बद्धा तर्जनीमध्यमे प्रसारयेदिति खङ्गमुद्रा १४. हस्ताभ्यां संपुटं विधायां - 25 गुलीः पद्मवद्विकास्य मध्यमे परस्परं संयोज्य तन्मूललग्नांगुष्ठौ कारयेदिति ज्वलनमुद्रा १५. बद्धमुष्टेर्दक्षिणकरस्य मध्यमांगुष्ठतर्जन्यौ मूलात् क्रमेण प्रसारयेदिति श्रीमणिमुद्रा १६ । एताः षोडशविद्या देवीनां मुद्राः । दक्षिणहस्तेन मुष्टिं बद्धा तर्जनीं प्रसारयेदिति दण्डमुद्रा १. परस्परोन्मुखौ मणिबन्धाभिमुखकरशाखौ करौ कृत्वा ततो दक्षिणांगुष्ठकनिष्ठाभ्यां वाममध्यमानामिके तर्जनीं च तथा वामांगुष्ठकनिष्ठाभ्यामितरस्य मध्यमानामिके तर्जनीं समाक्रामयेदिति पाशमुद्रा २. परस्पराभिमुखमूर्द्धांगुलीकौ करौ कृत्वा 30 तर्जनीमध्यमानामिका विरलीकृत्य परस्परं संयोज्य कनिष्ठांगुष्ठौ पातयेदिति शूलमुद्रा ३.. यद्वा पताकाकारं करं कृत्वा कनिष्ठिकामंगुष्ठेनाक्रम्य शेषांगुलीः प्रसारयेदिति शूलमुद्रा द्वितीया । एताः पूर्वोक्ताभिः सह दिक्पालानां मुद्राः । ग्राह्यस्योपरि हस्तं प्रसार्य कनिष्ठिकादि - तर्जन्यन्तानामङ्गुलीनां क्रमसंकोचनेनाङ्गुष्ठमूलानयनात् संहार - मुद्रा । विसर्जनमुद्रेयम् । उत्तानहस्तद्वयेन वेणीबन्धं विधायांगुष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां च मध्यमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003393
Book TitleVidhi Marg Prapa
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2000
Total Pages186
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy