________________
अनुयोगद्वार-चूलिकासूत्रं सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिँश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुर्वाज्ञाभ्युपगम इत्यर्थः ३,
अवश्यकर्तव्यमावश्यकं तत्र भवा आवश्यकी-ज्ञानाद्यालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यं कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदना आवश्यकमिति हृदयं ४,
निषेधे भवानषेधिकी उपाश्रयादहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रेव प्रविशत: साधोः शेषसाधूनामुन्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचनन्षेधिकीति परमार्थ: ५,
भदन्त ! करोमीदमित्येवं गरोः प्रच्छनमाप्रच्छना ६, एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामदो प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना ७,
छन्द छदि संवरण' इत्यस्याने कार्थत्वात्, कुरु ममानुग्रहं परिभुक्ष्वेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८,
इदं वस्तु लब्ध्या ततोऽहं तुभ्यं दास्यामीत्येवद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च
"पुव्वगहिएण छंदन निमंतणा होइऽगहिएणं"ति ९,
त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवं एते दशप्रकाराः काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः ।।
मू. (१४४)उवसंपया य काले सामाचारी भवे दसविहा उ। से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुची?, २ उवसंपया जाव इच्छागारो, से तं पच्छानुपुची । से किंतं अनानुपुब्बी ?, २ एआए चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमनन्भासो दुरूवूणो, से तं अनानुपुव्वी, से तं सामायारीआनुपुवी।
वृ.इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याज्ञाबलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यत् प्रथममुपन्यासः, अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य, एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य, प्रतिपन्नगुरुवचनेन चोपाश्रयाद्वहिनिर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्याः, बहिर्निगतेन च नैषेधिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः, उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः, आपृष्टे च निषिद्धे पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः, प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाशनादौ स्याद् अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्राणायाः, इय च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वोत्वसिद्धिरिति । शेषं पूर्ववदिति । अथ भावानुपूर्वीमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org