________________
२४९
मूलं-२ तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोनिवेदिते सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, 'सुयनाणस्से'त्यादि श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते। ___ तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थ किञ्चिद्विस्तरतः उच्यतेतत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिक श्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:-इहाचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनयः सः स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति-भगवन् ! अमुकं मम श्रुतमुद्दिशत, गुरुरपि भणति इच्छाम' इति, ततो विनेयो वन्दकं ददाति?, ततो गुरुरुत्थाय चैत्यवन्दनकं करोति, तत ऊर्ध्वस्थितो वामपावीकृतशिप्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासामानं कायोत्सर्ग करोति, 'चंदेसु निम्मलयरे'ति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, ततः पारितकायोत्सर्गः संपूर्ण चतुर्विशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारंवारत्रयमुच्चार्य 'नाणं पञ्चविहं पन्नत्त' मित्यादि उद्देशनन्दी भणति,
तदन्ते च 'इदं पुनः प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कंधं इदमध्ययनं वा उद्दिशामिक्षमाश्रमणानां हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्ट' मित्येवं वदति, क्षमाश्रमणानामित्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते, ततो विनेय इच्छामी'ति भणित्वा वन्दनकं दादति २, तत उत्थितो ब्रवीति-'संदिशत किं भणामीति,' ततो गुरुर्वदति वन्दित्वा प्रवेंदये 'ति, तयो विनये 'इच्छामी'ति भणित्वा वन्दनकं ददाति ३, ततः पुनरुत्थितः प्रतिपादयति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरयति-'योगं कुवि'ति, एवं सन्दिष्टो विनेय 'इच्छामि'ति भणित्वा वन्दनकं ददाति, ततोऽत्रान्तरे नमस्कारमुच्चायन्नसौ गुरु प्रदक्षिणयति, तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति- भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुराह-'योगं कुर्वि'ति,
एवं सन्दिष्ट इच्छामिति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति ४, ततस्तृतीयप्रदक्षिणान्ते गुरुनिषीदीति, निपण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति-'युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि' ततो गुरुराह-'प्रवेदये'ति, तत इच्छामीति भणित्वा विनेयो वन्दनकं ददाति ५, प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कार: पुनर्वन्दनकं ददाति ६, पुनरित्थतो वदति-'युष्माकं प्रवेदितं साधूनां च तत् प्रवेदितं सन्दिशत करोमि कायोत्सर्ग' ततो गुरुरनुजानीते-'कुवि'ति, ततः पुनरपि वन्दनकं ददाति ७,।
एतानि सप्त थोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते-'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छसितादित्यादि यावद्व्युत्सृजामीति' तत: कायोत्सर्गस्थितः सप्तविंशतिमच्यासांश्चिन्तयति सागरवरगम्भीरे' ति यावच्चतुर्विशतिस्तवं चिन्तयति इत्यर्थः।
उद्देससमुद्देसे सत्तावीसं अनुन्नवणयाए' इतिवचनात्, ततः पारितकार्योत्सर्गः संपूर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org