________________
३१८
अनुयोगद्वार-चूलिकासूत्रं विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवांगुलीदेशे, देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, न च वक्तव्यं देशिनो देशो न कश्चिद्भिन्नो दृश्यते, एकान्ताभेदे देशमा त्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः, न च देशदेशिभाव: कल्पनामात्र सभ्भत्यादिन्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन, 'नाणादव्वाइ'मित्यादि, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्राऽऽनुपूर्वीणां नानात्वं, तैश्च त्र्यादिप्रदेशवगाद्वैर्द्रव्यभेदैः, सर्वोऽपि लोको व्याप्त इति भावः। ___ अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्घयेय भागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनाद्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति, 'नानादव्वाइं पडुच्च नियमा सव्वलोए होञ्ज'त्ति, एकैकप्रदेशावगाद्वैरपि द्रव्यभेदैः समस्तलोकव्याप्तेरिति, एवम् 'अवत्तव्वगदव्वाणिवित्ति, अवक्तव्यकद्रव्यमप्येकं लोकासङ्खयेयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानत्, प्रदेशद्वयस्य च लोकासङ्खयेयभागवर्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्ते नाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति । ___अत्राह-नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भावः प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात्?, अत्रोच्यते, इह त्र्यादिप्रदेशावगाढात् द्रव्याद्भित्रमेव तावदेकप्रदेशावगाढं, ताभ्यां च भिन्नं द्विप्रदेशावगाढं, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासितेच वस्तुनि तत्तत्सहकारिसन्निधानात्तत्तद्धर्माभिव्यक्तौ दृश्यत एवछ समकालं व्यपदेशभेदो, यथा खङ्गकुन्तकवचादियुक्ते देवदत्ते खङ्गी कुन्ती कवचीत्यादिरिति, इह कचिद वाचनान्तरे "अनानपव्वीदव्वाइं अवत्तव्यगदव्वाणि जहेव हिडे'ति अतिदेशे एव दृश्यते, तत्र 'हे?'ति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयोः क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थ: तच्च व्याख्यातमेव, इत्येवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यममिति । गतं क्षेत्रद्वारं,
मू.(११६ वर्तते) नेगमववहाराणं आनुपुब्बीदव्वाईं, लोगस्स किं संखेज्जइभाग फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसति जाव सव्वलाअंफुसंति?, एगं दव्वं पडुच्च संखिज्जइभागं वा फुसइ असंखिज्जइभागं असंखिज्जइभागे (संखेज्जे भागे वा) असंखेज्जे भागे वा देसूनं वा लोग फुसइ, नानादब्वाइं पडुच्च नियमा सव्वलोअंफुसंति, अनानुपुब्बीदव्वाई अवत्तव्वगदव्वाइंच जहा खेत्तं नवरं फुसणा भाणियव्वा ।। __ वृ.स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयं, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य संख्येयभागादाराभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण संख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org