SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार-चूलिकासूत्रं आनुपुव्वी'त्ति, त्रिषु-नभः-प्रदेशेष्ववगाढ:-स्थितः त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदिद्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं ?, सत्यं किन्तु क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूळधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते?, उच्यते, ___'संतपयपरूवयणे'त्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिध्यमतिव्युत्पत्त्यविषयत्वाद्, एवमन्यदपि कारणमभ्युह्यमित्यलं विस्तरेणं, एवं चतुष्प्रदेशावगाढादिष्वपि भावना काया, यावदसङ्ख्यातप्रदेशागाढा आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति-परमाणुराकाशास्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोसङ्ख्यातप्रदेशिकान्तास्तुस्कन्धाः प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाणवो भवन्ति सतावत्स्वेव नभःप्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसङ्घयेयेष्वेव नभ:प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्घयेयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्यावगाहाभावादित्यलं प्रसङ्गेन, प्रकृतमुच्यते, तत्रानुपूर्वीप्रतिक्षत्वादनानुपूर्व्यादिस्वरूपमाह-'एगपएसोगाढे अनानुपुव्वी"त्ति, एकस्मिनभ:प्रदेशे अवगाढ:-स्थित एकप्रदेशावगाढः परमाणुसङ्घातः स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, 'दुप्पएसोगाढे अवत्तव्वए'त्ति, प्रदेशेद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्त्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो, यावद् द्रव्यप्रमाणद्वारे। मू. (११६) नेगमववहाराणं आनुपुव्वीदव्वाइं किं अत्थि?, नत्थि नियमा अस्थि, एवं दुनिवि । नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाइ अनंताई?, नो संखिज्जाई असंखिज्जाइं नो अनताई, एवं दुनिवि। वृ. 'नेगमववहाराणं आनुपुव्वीदव्वाई किं संखेज्जाई'इत्यादि प्रश्नः, अत्रोत्तरम्- 'नो संखेञ्जाइ'मित्यादि, व्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहामपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात्, क्षेत्रानुपूर्व्यामसङ्घयातान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः, एकमेकप्रदेशावगाढं बह्वपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तं, लोके च प्रदेशा असङ्ख्याता भवन्ति, अतस्तत्तुल्यसङ्ख्यत्वादनानुपूर्वीद्रव्याण्यप्यसङ्घयेयानीति, एवं प्रदेशद्वयेऽवगाढं बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तं, द्विप्रदेशात्मकाश्च विभागा लोकेऽसङ्ख्याता भवन्त्यतस्त्यान्यप्यसङ्खयेयानीति । क्षेत्रद्वारे निर्वचनसूत्रे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy