________________
मूलं-११० . ६५४३२१, आगमत्, ७२०, अनाऽऽद्या भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थ करणगाथा
"पुव्वानुपुव्वि हिट्ठा समयाभेएण कुरु जहाजेहूँ ।
उवरिमतुल्लं पुरओ नसेञ्ज पुव्वकम्मो सेसे ॥" इति, व्याख्या-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः, 'हे?'त्ति अधस्ताद् द्वितीयादिभङ्ककान्, जिज्ञासुः 'कुरु'त्ति स्थापय एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्मादौ स तस्य ज्येष्ठो, यथा द्विकस्यैयको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्टानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एव च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात, कथमित्याह-'समयाभेदेने ति समयः-सङ्केत: प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेदः-अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं च
"जहियंमि उ निक्खित्ते पुनरवि सो चेव होइ कायव्वो।
सो होइ समयभेओ व यव्वो पयत्तेणं ॥" । निक्षिप्तस्य चाङ्कस्य यथासम्भवं पुरओ'त्ति अग्रतः उपरितनाङ्गैस्तुल्यं-सदृशं यथा भवेत्येवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कानिक्षेपेदित्यर्थः, 'पुव्वक्कमो सेसे'त्ति स्थापितशेषानङ्कान्निक्षिसाङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः, यः संख्यया लघुरेककादिः स प्रथमं स्थाप्यते वस्तुतया महान् द्विकादिः स पश्चादिति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना। ___ भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च त्रीणि पदान्याश्रित्व तावद् दर्श्यते-तेषां च परस्पराभ्यासे षड् भङ्गका भवन्ति, ते चैवमानीयन्ते-पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा-१२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद्, भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः,सतदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते, 'उवरिमतुल्ल' मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः २१३, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः, परं नासौ तदधस्तानिक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एकस्य तु ज्येष्ठएव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, सतदधस्तानिक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकौ क्रमेण स्थाप्येते 'पुव्वकमो सेसे'त्तिवचनात, ततस्तृतीयोऽयं भङ्गः १३२, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो द्विको, न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विक: ‘उवरिमतुल्ल'मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः ३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चाभीषामियंस्थापनाअत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादत्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारोऽ२१३ १२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org