SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - - ३०४ अनुयोगद्वार-चूलिकासूत्रं परमाणुभ्यां द्विप्रदेशिक; स्कन्धो निप्पन्नः, अथवा विघटित एव द्विप्रदेशिक: स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव नियुक्त इत्यवक्तव्यकस्स् पुनरत्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते, 'उक्कोसणं अनंतं कालं' इति, कथम्?, अत्रोच्यते, अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातं, तच्चानन्तैः परमाणुभिरनन्तैव्यणुकस्कन्धेरनन्तैस्त्र्यणुकस्थन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते, नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या। उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्दिदिक्षुराह मू. (९८) नेगमववहाराणं आनुपुब्बीदव्वाई सेसदव्वाणं कइभागे होज्जा? किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेजेसं भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखिज्जइभागे होज्जा नो असंखिज्जाभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नियमा असंखेज्जेसु भागेसु होज्जा। नेगमववहाराणं अनानुपुव्वीदव्वाइंसेसदव्याणं कइभागे होज्जा कि संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेजेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखेज्जइभागे होज्जा नों असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा । एवं अवतव्वगदब्बाणिवि भाणिअव्वाणि । वृ. नैगमव्यवहारयोस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यणलक्षणानां 'कइभागे होञ्जत्ति कतिभागे भवन्तीत्यर्थः, किं संख्याततमे भागे भवन्ति, यथा असत्कल्पनया शतस्य विंशतिमिताः, किमसंख्याततमे भागे भवन्ति?, यथा शतस्यैव दश, अथ संख्यातेषु भागेषु भवन्ति?, यथा शतस्यैव चत्वारिंशत् ष्ष्टिा, किमसंख्यातेषु भागेषु भवन्ति, यथा शतस्यैवाशीतिरिति प्रश्नः अत्र निर्वचनम्-'नो संखेज्जइभागे होञ्जा' इत्यादि, नियमात् 'असंखेजेसु भागेसु होञ्जत्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसंख्येयै गैरधिकानि, भवन्तीति वाक्यशेषो दृष्टव्यः, ततश्चायमर्थः प्रतिपत्तव्यःआनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयगुणानि, शेषद्रव्याणि तु तदसंख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति, कस्मादेवं व्याख्यायते?,स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अधटमानत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि द्रव्याणि समस्तन्यप्यनुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसंख्येयगुणानि, यत उक्तम् "एएसिणं भंते ! परमाणुपोग्गलाणं संखिञ्जपएसियाणं असंखेञ्जपएसियाणं अनंतपएसियाण य खंधाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा, परमाणुपोग्गला अनंतगुणा, संखिञ्जपएसिआखंधा संखिञ्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy