SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २९२ अनुयोगद्वार-चूलिकासूत्रं तेन जह सुण्णसन्न होइ तयं तं तहा कुञ्जा ।।२॥ आगारिंगियकुसलं जइ सेयं वायसं वए पुञ्जा। तह वि य से नवि कूडे विरहम्मि य कारणं पुच्छे ॥३॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहई? | संपाइयवं सीसो जह तह सम्वत्थ कायव्वं ॥४॥ इत्यादि, भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वं, शेषास्तु नामस्थापनाद्रव्याधुपक्रमा अनर्थका एव, नैतदेवं, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनपानवस्त्रपात्रौषधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपि सार्थका एव, नामस्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽभ्युपक्रमसाम्यादोस्तो, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोशपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्यदोषः॥ तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह- म.(८०)अहवा उवक्कमे छबिहे पन्नत्ते, तंजहा-आनुपुची१ नामंर पमाणं३ वत्तव्वया ४ अत्याहिगारे ५ समोआरे६ । वृ.अथवा अनन्तरं यः प्रशस्तभावोपक्रमः उक्तः स हि द्विविधो दृष्टव्यो-गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भावः शास्त्रभावस्तस्योपक्रमः शास्त्रभावोपक्रमः, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह-'अहवा उवक्कमे इत्यादि, 'अथवे'तिपक्षान्तरसूचक: उपक्रमः, प्रथमपातनापक्षे शास्त्रीयोपक्रमे द्वितीयपातनापक्षे तु शास्त्रोभावोपक्रमः, षड्विधः' षट्प्रकार: प्रज्ञप्तः, तद्यथा-आनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकार: ५ समवतारः ६ । एतेषां तु शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः। तत्राऽऽनुपूर्वीस्वरूपणार्थमाह· मू.(८१) से किंतं आनुपुब्बी?, २ दसविहा पन्नत्ता, तंजहा-नामानुपुची १ ठवणानुपुब्बी २ दव्वानुपुयी ३ खेतानुपुव्वी ४ कालानुपुव्वी ५ उकित्तणानुपुव्वी ६ गणणानुपुवी ७ संठाणानुपुवी ८ सामाआरीआनुपुब्बी ९ भावानुपुब्बी १० वृ.अथकिं तदानुपूर्वीवस्त्विति प्रश्नार्थः। अत्र निर्वचनम् -'आनुपुव्वी दसविहे' त्यादि, इह हि पूर्व प्रथममादिरिति पायाः, पूर्वस्य अनु-पश्चादनुपूर्व, 'तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथा-नामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणाननुपूर्वी संस्थानानुपूर्वी सामचार्यानुपूर्वी भावानुपूर्वीति । मू.(८२) नामठवणाओ गयाओ, से किं तं दव्वानुपुब्बी?, २ दुविहा पन्नत्ता, तंजहाआगमओ ननोआगमओ आसे किं तं दव्वानुपुच्ची?, २ जस्सनं आनुपुब्बित्ति पयंसिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्ट, नेगमस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy