________________
मूलं - ६९
न्यतोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः ।
एवं निक्षेपणं - शास्त्रादेर्नामस्थापनादिभेदेर्न्यसनं व्यवस्थापनं निक्षेपः निक्षिप्यते नामादिभेदैव्र्व्यवस्थाप्यते अनेनास्मित्रस्मादिति वा निक्षेप:, वाच्यार्थविवक्षा तथैव । एवमनुगमनं - सूतस्यानुकूलमर्थकथनमनुगमः, अथवा अनु गम्यते - व्याख्याययते सूत्रमनेनास्मिन्न-स्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव । एवं नयनं नया नीयते परिच्छद्यते अनेनास्मिन्न - स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यसिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैर्निक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्यथेति तदनन्तरं नय इति यथाक्तक्रमेणोपन्यासः फलवानिति ।
तत्रोपक्रमो द्विधाः शास्त्रीय-- इतरश्च लोकप्रसिद्धः, तत्रेतराभिधित्सया प्राह
मू. ( ७० ) से किं तं उवक्कमे ?, २ छव्विहे पन्नत्ते, तंजहा- नामोवक्कमे ठवणोवक्कमे दब्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तं दव्वोवक्कमे ?, २ दुविहे पत्रत्ते, तंजहा- आगमओ अ नोआगमओ अ, जाव जाणगसरीरभविअसरीरखरिते दव्वोकमे तिविहे पन्नत्ते, तंजहा- सचित्ते अचित्ते मीसए ।
२८७
वृ. 'उवक्कमे छव्विहे पत्रत्ते ' इत्यादि, अत्र क्वचिदेवं दृश्यते- 'उवक्कमे दुविहे पन्नत्ते' इत्यादि, अयं च पाठ आधुनिको ऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात्, यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं
स्यात्
'से किं तं सत्थोवक्कमे ?, सत्थोवक्कमे छव्विहे पन्नत्ते' इत्यादि, न चैवं, तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा किन्त्वितरोपक्रममणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः -- तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् 'से किं तं जाणयसरीरभविअसरीरवइरित्ते दव्वोवक्कमे ?' इत्यादि,
तत्र द्रव्यस्य-नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायाविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्यथ घृतादिना द्रव्येभूम्यादौ द्रव्यतः घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथासचित्तद्रव्यविषयः, सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयवस्तु मिश्रः, द्रव्योप-क्रम इति वर्तते ।
मू. ( ७१ ) से किं तं सचित्ते दव्वोवक्कमे ?, २ तिविहे पन्नत्ते, तंजहा- दुपए चउप्पए अपए, एक्किक्के पुण दुविहे पन्नत्ते तंजहा- परिक्कमे अ वत्थुविनासे अ ।
वृ. तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा द्विपदानां नटनर्तकादीनां चतुष्पदानाम्अश्वहस्त्यादीनाम् अपदानाम् आम्रादीनां तत्रैकैकः पुनरपि द्विधा - परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषेरुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org