________________
मूलं-२२
२७१ त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि-गिरिनगरवासी कश्चिदग्निभक्तो वणिक पद्मरागरलानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति तं चाविवेकितया तनगरतरपतिर्लोकश्च श्लाघते-अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यक्त्यतिशयाद् रत्नस्तर्पयति, अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तत्रागरं दहति स्म, असौ च राज्ञा दण्डितो नगराश्च निष्कामसितः, तदेव यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याविधिप्रवृत्तस्य प्रशंसा कुर्वनात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव् सपरिकरो निरपायतामनुभवसि, तथाहि-अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद्वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि, उपनयो गतार्थः, इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिता:-एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति।
तदेवं तत् साध्वाभासवश्यकप्रकारं सर्वं लोकोत्तररिकं द्रव्यावश्यकमिति। निगमयन्नाह'सेत'मित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकं, एतद्भणने च ज्ञशरीरभव्यशरीव्यतिरिक्त त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति-'सेत'मित्यादि, एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो निगमयति'से तं दव्वावस्सय मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः ।
उक्तं सप्रपञ्चं द्रव्यावश्यक, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाहमू.(२३) से किं तं भावावस्सयं? २ दुविहं पत्रत्तं, तंजहा-आगमतो अनोआगमतो ।
वृ. अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह-'भावावस्सयं दुविह'मित्यादि, वक्तृविवक्षितपरिणामस्य भवनं भावः, उक्तं च
"भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः।
सर्वज्ञैरिन्द्रादिवदिहेन्द्रनाक्रियाऽनुभवात् ॥" व्याख्या:-वक्तृर्विवक्षितक्रियायाः-विवक्षितपरिणामस्य इन्दनादेस्तुभवनम्-अनुभूतिस्तया युक्तो योऽर्थः स भावतद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः, निदर्शनमाहइन्द्रादिवदित्यादि, यथा इन्दनादिक्रियानुभवात्, परमैश्वर्यादिपरिणामेन परिणत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थः।
भावश्चासो आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकं, तच्च द्विविधं प्रज्ञप्तं, तद्यथा-आगमत:-आगममाश्रित्य नोआगमत:-आगमाभावमाश्रित्य। तत्राऽऽद्यभेदनिरूपणार्थमाह
म.(२४)से कितं आगमतो भावावस्सयं? २ जाणए उवउत्ते, सेतं आगमतो भावावस्सयं। वृ.अथ किं तदागमतो भावावश्यकम्?, अत्राह-'आगमओ भावास्सयं जाणए' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org