SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ४७० अनुयोगद्वार-चूलिकासूत्रं इति वक्तव्यो, यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि १५, लिङ्गभिन्नं यत्र लिङ्गव्यत्यो, यथा अयं स्त्रीत्यादि १६, अनभिहितं-स्वसिद्धान्तानुपदिष्टं, यथा सप्तमः पदार्थो वैशिषिकस्य, प्रकृतिपुरुषाभ्यधिकं साङ्ख्यस्य, दुःखसमुदायमार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७, यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदं, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्तिमदाकाशमित्यादि १९, यत्र प्रकृतं मुक्त्वाऽप्रकृतंव्यासतोऽभिधाय पुनः प्रकृतमुच्यते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्ति-मदाकाशमित्यादि १९, पत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभीधाय पुनः प्रकृतमुच्यते तद्व्यवहितं २०, ___ कालदोषो यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविविशेति वक्तव्ये रामो वनं प्रविशतीत्याह २१, यतिदोषोऽस्थानविरतिः सर्वथाऽविरतिर्वा २२, छविः-अलङ्कारविशेषस्तेन शून्यं छविदोषः २३, समयविरुद्धं स्वसिद्धान्तविरुद्धं, यथा साङ्ख्यस्यात् कारणे कार्य, वैशिषिकस्य वा सदिति २४, वचनमात्रं निर्हेतुकं, यथा कश्चिद्यथेच्छया कञ्चित्प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति २५, यत्रार्थापत्त्याऽनिष्टमापतति तत्रापत्तिदोषो, यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्टइत्यापतति २६, यत्र समासविधिप्राप्तौ समासंन करोति व्यत्ययेन वा करोति तत्रासमासदोषः २७, उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरु: सर्वपोपमः, अधिकोपमा वा क्रियते, यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८, रूपकदोषः स्वरूपभूतानामवयवानां व्यत्ययो, यथा पर्वते निरूपयितव्ये शिखरादीस्तंदवयवात्रिरूपयति, अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवाँस्तत्र निरूपयतीति २९, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेकवाक्यता नक्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यमिधातव्ये पचतिशब्दं नाभिधत्ते ३०, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तं, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१, यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोषः ३२, एते द्वात्रिंशत्सूत्रदोषाः, एतैविरहितं यत्तल्लक्षणयुक्तं सूत्र। अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाः "निद्दोसं सारवंतं च, हेउज्जुत्तमलंकियं । उवनीयं सोवयारं च, मियं महुरमेव य।।" तत्र निर्दोषं-सर्वदोषविप्रमुक्तं १, सारवद् गोशब्दवद्बहुपर्यायं २, हेतवः अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३, उपमोत्प्रेक्षाधलङ्काररैलकृतम् ४, उपनयोपसंहृतमुपनीतं ५, ग्राम्यमणितिरहितं सोपचारं ६, वर्णादिनियतपरिमाणं मितं ७, श्रवणमनोहरं मधुरम् ८ । अन्यैश्च कैश्चिद् षड्गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं। अत्थोभममवज्जं च, सुत्तं सव्वत्रुभासियं ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy