________________
अनुयोगद्वार - चूलिकासूत्रं आकर्षणमाकर्षः- एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि - प्रतिपत्तय इति वाच्यं तच्च वक्ष्यति
४६८
,
" तिन्हं सहसपुहुत्तं सयप्पहुत्तं च होइ विरईए । एगभवे आगरा एवड्या होंति नायव्वा ॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होइ विरईए । नावे आगरा एवइया हुंति नाय - व्वा ।। " इति, फासण 'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं तच्चैवम्"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच य सुयदेसविरईए ।
इत्यादि, निश्चित्ता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च -
"चम्मद्दिट्ठि अमोहो सोही सब्भावं दंसणं बोही । अविवज्जओ सुदिट्ठित्ति एवमाई निरुत्ताइ ॥"
I
- मित्यादि वक्ष्यति, एवं तावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनिर्युक्तिटीकाभ्यामवसेय इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनिर्युक्तिः समर्थता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनिर्युक्तेरवसरः संपद्यते, सूत्रं च सूत्रानुगमे सत्येवं भवति, सोऽप्यवसरप्राप्त एव, ततस्तमभिधित्सुराह
मू. ( ३४० ) से किं तं सुत्तप्फासि अनिज्जुत्ति अनुगमे ? २ सुत्तं उच्चारेअव्वं अक्खलिअं अमिलिअं अवच्चामेलिअं पडिपुत्रं पडिपुत्रघोसं कंठोदुविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थणज्जिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइ अपयं वा नोसामाइ अपयं वा, तओ तम्मि उच्चारिए समाणे केसि च नं भगवंताणं केइ अत्थाहिगारा अनहिगया भवंति, ततो तेसिं अनहिगयाणं अहिगमनट्ठाए पयं पएणं वन्नइस्सामि, - संहिया य पदं चेव, पयत्थो पर्यावग्गहो ।
पू. (३४१ )
चालना य पसिद्धी अ, छव्विहं विद्धि लक्खणं ॥
मू. ( ३४२ ) से तं सुत्तप्फासियनिज्जुत्ति अनुगमे, से तं निज्जुत्ति अनुगमे, से तं अनुगमे ॥ वृ. आह- ननु यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिक नियुक्त्याः प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते ?, सत्यं, किन्तु निर्युक्तिसाम्पात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव दृष्टव्या, अयं च सूत्र दोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणं, तच्चेदम्
"अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणतं सुतं अट्ठहि य गुणेहि उववेयं ॥"
अस्या व्याख्या-अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः 'उत्पादव्ययध्रौव्ययुक्तं सदि' - त्वादिवत्सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः, यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International