________________
४५९
मूलं-३२४ श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्, क्षायोपशमिकभावनाम्नि समवतरति, आह च भाष्यकार:
"छव्विहनामे भावे खओवसमिए सुयं समोयरइ ।
जं सुयनाणावरणक्खओवसमयं तयं सव्वं ।।" प्रमाणे च द्रव्यादिभेदैः प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति,
"दव्वाइचउब्भेयं पमीयए जेण तं पमाणंति।
___ इणमज्झयणं भावोत्ति भाव(प)माणे समोयरइ ।" भावप्रमाणं च गुणनयसङ्ख्याभेदतरितधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो, नयप्रमाणे तुयद्यपि-'आसञ्ज उसोयारंनए नयविसारओ बूया'इत्यादिवचनात् क्वचिन्नयमसवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावद्वस्तुवृत्याऽनवतारएव, यत इदमुप्युक्तम्"मूढनइयं सुयं कालियं तु न नया समोयरंति इह" मित्यादि, महामतिनाऽप्युक्तम्___ "मूढनयं तु न संपई नयप्पमाणावआरो से"त्ति, गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाञ्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानुमानोपमानागमभेदाचतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिकलोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्त परिमाणसङ्ख्यायामस्यावतारः, वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापिपरोभयसमयवर्णनं क्रियते तत्रापि निश्चयतः स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन स्वसमयत्वात्, सम्यादृष्टिहि परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीतः स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम्
"परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं ।
तो सव्वज्झयणाई ससमयवत्तव्वनिययाई॥" एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ।। अथ निक्षेपद्वारं निरपयितुमाह
मू.(३२५) से किं तं निक्खेवे?, २ तिविहे पन्नत्ते, तंजहा-ओहनिप्फन्ने नामनिप्फने सुत्तालावनिप्फन्ने । से किं तं ओहनिप्फन्ने ?, २ पन्नत्ते, तंजहा-अज्झयणे अज्झीणे आए खवणा। सेकिंतं अज्झयणे?, २ चउबिहे पन्नत्ते, तंजहा-नामज्झयणे ठवणज्झयणे दबज्झयणे भावज्झयणे, नामठवणाओ पुव्वं वनिआओ, से कितं दव्वज्झयणे?, २ दुविहे पन्नत्ते, तंजहाआगमओ अनोआगमओ।
से किंतं आगमओ दब्बज्झयणे?, २ जस्सणं अज्झयनत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एव जावइआ अनुवउत्ता आगमओ तावइआइंदव्वज्झयनाई, एवमेव ववहारस्सवि, संगहस्सणं एगो वा अनेगोवा जाव, से तंआगमओ दव्वज्झयणे। से किंतं नोआगमओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org