________________
४४४
अनुयोगद्वार - चूलिकासूत्रं आयुबन्धं च प्राणिनो ऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्तः आभिमुख्यं त्वासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्त:, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविशङ्खस्य मध्ये क शङ्खमिच्छतीति विचार्यते तत्र नैगमसंग्रहव्यवहाराः स्थूलदृष्टित्वात्रिविधमपि शङ्खमिच्छन्ति दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि, ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद्द्द्विविधमेवेच्छति, शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेकं चरममेवेच्छन्ति । 'से त'मित्यादि निगमनम् ।
-
मू. ( ३११ ) से कि तं ओवम्मसंखा ?, २ चउव्विहा पन्नत्ता, तंजहा- अत्थि संतयं संतएणं उवमिज्जइ, अस्थि संतयं असंतएणं उवमिज्जइ, अत्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिज्जइ, तत्थ संतयं संतएणं उवमिज्जइ, जहा संता अरिहंता संतएहिं पुरवरेहि संतएहिं कवाडेहिं संतएहिं वच्छेहिं उवमिज्जइ, तंजहा
भू. (३१२)
पुरवरककवाडवच्छा फलिहभुआ दंदुहित्थणि अघोसा । सिरिवच्छंकि अवच्छा सव्वेऽपि जिनाचउव्वीसं ।
मू. ( ३१३ ) संतयं असंतएण उवमिज्जइ, जहा संताइं नेरइअतिरिक्खजोणि अमनुस्सदेवाणं आउआई असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जति, असंतयं संतएणं उ० तं० - परिजूरिअपेरंतं चलंतबिंटं पडंतनिच्छीरं ।
मू. ( ३१४ )
मू. (३१५)
पत्तं व वसनपत्तं कालप्पत्तं भणइ गाहं ॥। जह तुब्भे तह अम्हे तुम्हे ऽवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥
मू. (३१६ )
नवि अत्थि नवी अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजनविबोहाणट्टाए । मू. (३१७) असंतयं असतएहिं उवमिज्जइ, जहा खरविसाणं तहा ससविसाणं । सेतं ओवम्मसंखा ।
वृ. सङ्ख्यानं सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या इयं चोपमानोपमेययोः इद सत्त्वामसत्त्वाभ्यां चतुर्द्धा, तद्यथा- 'संतयं संतएण'मित्यादि, तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपायदिना उपमानेन स्वरूप संख्यायते - निश्चीयते इत्यौपम्यसंख्यात्वं भावनीयं यस्य तीर्थकराः स्वरूपतो निश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो - नगरपरिघोपमबाहवस्ते भवन्तीत्याद्युपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यनत्वादिति भावः । द्वितीयभङ्गे पल्योपमसागरोपमाणां योजनप्रमापल्यावालाग्रादिकल्पनामात्रेण प्ररूपितत्त्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति, तृतीयभङ्गे 'परिजूरियपेरंत' मित्यादि गाथा, तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org