________________
मूलं-११
२५७ वृ. अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणावस्सयं जपण'मित्यादि, तत्र स्थाप्यते-अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकादिगतावश्यकवत्साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम्
___ “यत्तु तदर्थवियुक्तं तदभिप्रायणे यच्च तत्करणि।
__ लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च ।। इति, विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो-भावेन्द्रभावावश्यकादिलक्षणस्तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण' भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशष्टं यदित्याह-यच्च 'तत्करणि' तेन-भावेन्द्रियादिना सह करणिः सादृश्यं यस्य(तत्) तत्करणि-तत् सादृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्त्वित्याह'लेप्यादिकर्मेति लेप्यपुत्तलिकादित्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियंतं कालं तत् क्रियत इत्याह-अल्प: कालो यस्य तदल्पकालम्-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः ।
इदानी प्रकृतमुच्यते-'जं नं'ति'ण'मिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्मणिं वा यावत् वराटके वाएको वा अनेको वा सद्भावस्थापनयावा असद्भावस्थापनया वा आवस्सए'त्ति आवश्यकतद्वतोरभेदोपचारत्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथंभूताः ?, अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविज्जइत्ति स्थापनारूपं स्थाप्यते-क्रियते, आवृत्त्या बहुवचनान्तत्वेस्थापनारूपाः स्थाप्यन्ते-क्रियन्ते, तत् स्थापनाऽऽवश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकम्ांदिष्वाश्यकक्रियां कुर्वन्तो यत् स्थापनारूपः साध्वादयः स्थाप्यन्ते तत् स्थापनाऽऽवश्यकमिति तात्पर्यम्। ___ अधुना अवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकट्रितं रूपमित्यरथः, चित्रकर्म चित्रलिखितं रूपकं' पोत्थम्मेव' त्ति अत्र पोत्थं-पोतं वस्तमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकंतच्वेह संपुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः:, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तत्छेदनिष्पन्न रूपकं, 'लेपकर्मा' लेप्यरूपकं, 'ग्रन्थिम' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकं 'वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् ‘संघातिमं' बहुवस्त्रादिखण्डसंघातानिष्पन्न कञ्चुकवत्, ‘अक्षः' चन्दनको 'वराटक:' कर्पदकः, अत्र वाचानान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यककक्रियां कुर्वन्तः एकादिसाध्यादयः सद्भावस्थापनया असद्भावस्थापनया वा 30/17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org