________________
अनुयोगद्वार-चूलिकासूत्रं निष्पद्यते,
तत्र च उवरिल्ले'त्ति उपरितने तन्तौ अच्छिने-अविदारिते' हेडिल्ले'त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः?, किं भवतीति शेषः, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्खयेयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्पसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेषामनन्तानां यः समुदयः-संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकाल: समयो न भवति, कस्तहि समय इत्याह___ 'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्षमच्छेदनकाल सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मनिति, अत्राह-ननु यद्यन्तैः परमाणुसंवातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तवेंकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तं"असंखेज्जासु णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवइया समया पत्रत्ता ?, गोयमा !, असंखेज्जा, अनंतासुणं भंते? उस्सप्पिणिअवसप्पिणीसु केवइया समया पन्नत्ता? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्येया एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः,
इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सहविरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्खयेयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनंसुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्षमच्छेदनकालादसङ्ख्याततमोऽश: समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिपस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्खयेयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठे व्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च -
"आगमश्चोपपतिश्च, सम्पूर्ण विद्धि (दृष्टि) लक्षणम्। .
अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org