________________
मूलं - ८
समग्रं यत्रापि च न जानीयानिरवशेषं निक्षेपभेदजालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद, इदमुक्तं भवति-यत्र तावन्नामस्थापनाद्रव्य क्षेत्रकाल भवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥
२५५
तत्र 'यथोद्देसं निर्देश' इत्यावश्यकनिक्षेपार्थमाह
मू. ( ९ ) से किं तं आवस्सयं?, आवस्मयं चउव्विहं पन्नत्तं, तंजहा- नामावस्सयं ठवणावस्सयं दव्वावस्सयं भावावस्सयं ।
वृ. अत्र 'से' शब्दो मागधदेशी प्रसिद्धोऽथशब्दार्थे वर्त्तते, वाक्योपन्यासार्थ:, तथा चोक्तम्"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुच्चयेपु" इति किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:- अथ किंस्वरूपं तदावश्यकम् ?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थ प्रत्युच्चार्य निर्दिशति 'आवस्सयं चउव्विह' मित्यादि,
अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानां आ-समन्ताद्वश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयंति प्राकृतशैल्या आवासकं, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आसमन्तात् वासयति गुणैरित्यावासकं, 'चउव्विहं पन्नत्तं 'ति चतस्रो विधा - भेदा अस्येति चतुर्विधं प्रज्ञतं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, , तद्यथा- 'नामावस्सय' मित्यादि, नाम- अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम्“यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् ।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ "
विनेयानुग्रहार्थमेतद्व्याख्या- यद्वस्तुनः इन्द्रादेः 'अभिधानम्' इन्द्र इत्यादिवर्णावलीमात्रभिदमेव च आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात्तन्नामेति संटङ्कः, अथ प्रकारान्तरेण नाम्नो लक्षणमाह- 'स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह- अन्यश्चासावर्थञ्चान्यार्थोगोपालदारकादिलक्षणः तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह'तदर्थनिरपेक्षम्' इति, तस्य- इन्द्रादिनाम्नोऽर्थः - परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षं गोपालदारकादौ तदर्थस्याभावात् पुनः किंभूतं तदित्याह- 'पर्यायानभिधेय' मिति पर्यायाणां शक्रपुरन्दरादीनामनभिधेयम् - अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दैर्नाभिधीयन्ते, अतस्तन्नामापि नामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशब्दो नाम्न एव लक्षणान्तरसूचकः, शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदास्कादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयप्रकारेणापि तल्लक्षणमाह
"यादृच्छिकं च तथे 'ति तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं यादृच्छिकं' स्वेच्छया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International