SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मूलं-२६५ ३८७ दादिविषयो भवति, यतस्तनिषेधार्थमेव प्रश्नमुत्पादयति-'से नं भंते !' इत्यादि, से भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः-खड्गं तद्धारां वा क्षुरो-नापितोपकरणं तद्धारां वा अवगाहेत-आक्रामेद्?, अत्रोत्तरं- 'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं, पुनः पृच्छति-स तत्रावगाढः संश्छिद्येत वाद्विधा क्रियेत भिद्येत वा-अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ?, उत्तरमाह-नायमर्थः समर्थः, नैतदेवमिति भावः, अत्रोपपत्तिमाह-न खलु तत्र शस्त्र क्रामति, इदमुक्तं भवति-यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्टादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैवपरमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: परमाणुDह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह-स भदन्ताग्निकायस्य-वहेमध्यंमध्येन-अन्तरे व्यतिव्रजेद्-गच्छेत् ?, हन्तेत्याद्युत्तरं पूर्ववत्, नवरंशस्त्रमिहाग्निशस्त्र ग्राह्यं, पुनः पृच्छति-'सेनं भंते! पुक्खले'त्यादि इदमपि सूत्रं पूर्ववद्भावीनयं, नवरं पुष्करसंवर्तस्य-महामेघस्येयं प्ररूपणा-इहोत्सपिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्पमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेमाणी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा-पुष्कलसंवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोदस्तृतीयो घृतोदश्चतुर्थोऽमृतोदः पञ्चमो रसोदः, तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं-प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति-नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः, उदउल्लेसिय'त्ति उदकेनाः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया, 'से णं भंते ! गंगाए' इत्यादि गङ्गाया महानद्याः प्रतिश्रोतो हव्यंशीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति, पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः 'विणिहाय'मित्यादि, विनिघात:-तत्स्रोतसि प्रतिस्खलनं तमापद्येत-प्राप्नुयात्, शेषं पूर्ववत्, ‘सेणं भंते! उदगावत्त'मित्यादि, उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः?, सच तत्रोदकसम्पर्कात् कुथ्येद्वापूतिभावं यायात् पर्यापद्येत् वा-जलरूपतया परिणमेदित्यर्थः शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपतः प्राहमू. ( २६६) सत्थेण सुतिखेणवि छित्तुं भेतुं च जंकिर न सका। तं परमाणु सिद्धा वयंति आई पमाणाणं। वृ.'सत्थेण' गाहा गतार्था, नवरंलक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुमारभते इत्येतत् किलशब्देन सूचयति, सिद्धत्ति-ज्ञानसिद्धा: केवलिनो, न तु सिद्धाः सिद्धिगताः, तेषां वदनत्त्यासम्भवादिति। मू. (२६७) अनंताणं ववहारिअपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उसण्हसहिआइ वा सहसहिआइ वा उड्डरेणू इ ता तसरेणू इ वा रहरेणू इवा, अट्ठउसहसहिआओ सा एगा सहसहिआ, अट्ठ सहसहिआओ सा एगा उड्वरेणू, अट्ठ उड्डरेणुओसा एगा तसरेणू, अट्ट तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ देवकुरुउत्तरकुरूणं मणुआणं से एगे वालग्गे, अट्ठ देवकुरुउत्तरकुरूणं मणुआणं वालग्गा हरिवासरम्मगवासाणं मणुआणं से एगे वालग्गे, अट्ट हरिखस्सरम्मगवासाणं मनुस्साणं वालग्गा हेमवयहेरनवयाणं मनुस्साणं से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy