SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ३८२ अनुयोगद्वार-चूलिकासूत्रं त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पाव: ३, यो निष्पावाः कर्ममाषक: ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एकः सुवर्णः ६ । अमुमेवार्थं किञ्चितढ सूत्रेऽप्याह-'पंच गुंजाओ'इत्यादि, पञ्च गुञ्जा एकः कर्ममाषकः, अथवा चतस्त्रः काकण्य एक: कर्ममाषकः, यदिवा त्रयो निष्पावका एकः कर्ममाषक:, इदमुक्त भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति। एवं 'चउक्को कम्ममासओ'इत्यादी, चतसृभिः काकिणीभिनिष्पन्नत्वाचतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिं शत्काकिणीभिर्मण्डलको भवतीति शेषः, भावार्थः, पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अनवा चतुःषष्टिः काकण्य एकः सुवर्णो, भावार्थः स एव, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थ, नवरंरजतं-रूप्यं मणयः-चन्द्रकान्तादय: शिलाराजपट्टकः, गन्धपट्टइत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्प्रतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपी विभागनिष्पन्नं द्रव्यप्रमाणं, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥ अथ क्षेत्रप्रमाणभिधित्सुराह मू.( २५७) से किं तं खेत्तपमाणे?, २ दुविहे पन्नते, तंजहा-पएसनिष्फने अविभागनिष्फन्ने आसे किं तंपएंसनिप्फन्ने?, २ एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे सुखिज्जप० असंखिज्जप०, से तं पएसनिप्फन्ने। से किं तं विभागनिष्फन्ने? । वृ. इदमपि द्विविध-प्रदेशनिष्पन्न विभागनिष्पन्नं च, तत्र पदेशा-इह क्षेत्रस्य निर्विभागा भागास्तनिष्पन्न प्रदेशनिष्पन्नं, विभाग:-पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से कि तं पएसनिप्फनो' तत्रैक प्रदेशावगाढाद्यसंख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम, एकप्रदेशाधवगाढताया एकादिभिः क्षेत्रप्रदेशनिष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वंगुलादि, तदेवाहमू. ( २५८) अगुलविहत्थिरयणी कुच्छी धनु गाउअंच बोद्धव्यं । जोयण सेढी पयरं लोगमलोगऽवि अतहेव॥ वृ.'अंगुलविहत्थि'गाहा, अंगुलादिस्वरूपंचस्त एव शास्त्रकारो न्यक्षेण वक्ष्यति। तत्रांगुलस्वरूपनिर्धारणायाह मू. ( २५९)से किं तं अंगुले?, २ तिविहे पन्नत्ते, तंजहा-आयंगुले उस्सेहगुले पमाणंगुले । से किं तं आयंगुले?, २ जे णं जया मनुस्सा भवंति तेसि नं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं नवमुहाइं पुरिसे पमाणजुत्ते भवइ, दोनिए पुरिसे मानजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्मानजुत्ते भवइ, वृ. 'से किं तं अंगुले' इत्यादि अंगुलं त्रिविधं प्रज्ञप्तं, तद्यथा-आत्मांगुलम् उत्सेधांगुलं प्रमाणागुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽगुलमात्मांगुलम्, अत एवाह--'जे न'मित्यादि, ये भरतादयः, प्रमाण For Private & Personal Use Only Jain Education International For www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy