________________
मूलं-२३६
३७१ इति चेत्, नैतदेवं, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावनमात्रेणैवोक्तत्वाद्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेषः ४।
'से किं तं पाहण्णयाए'इत्यादि, प्रधानस्य भावः प्रधानता तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेष्वाम्रादि पादपेष्वशोकप्रधाननंवनमशोकवनमिति नाम, सप्तपर्णाःसप्तच्छदास्तत्प्रधानं वनं सप्तवर्णवनमित्यादि सुगम, नवरमात्रप्याह-ननु गुणनिष्पनादिदं न भिद्यते, नैवं, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावावदिति भेदः ५। 'से किं तं अनाइसिद्धतेण'मित्यादि, अमनं अन्तो-वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धश्वासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धःप्रतिष्ठितो योऽसावन्तः परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थ धर्मास्तिकायादि, एतेषां न नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वरूपमित्येतावता गौणनाम्नः, पृथगेतदुक्तमिति ६ । 'से किं तं नामेन'मित्यादि, नाम-पितृपितामहादर्वाकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह-'पिउपिआमहस्स नामेणं उन्नामिए'त्ति पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रांदिरुन्नामित-उत्क्षिप्तः प्रसिद्धि गत इतियावत् स एव नामतद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम्, से तं नामेण ७॥ 'से किं तं अवयवेण'मित्यादि, अवयवोऽवयविन एकदेशस्तेन नाम यथा मू. (२३६) सिंगी सिही विसाणी दाडी पक्खी खुरी नही वाली।
दुपय चउप्पय बहुपया नंगली केसरी कउही। वृ. 'सिंगी सिंही'त्यादिगाथा, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यमि सुगमानि, नवरं द्विपद-स्त्र्यादि चतुष्पदं-गवादि बहुपदं-कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया, 'कउहि'त्ति ककुदं-स्कन्धासन्नोन्नतदेहावयलक्षणमस्यास्तीति ककुदी-वृषभ इति, मू.( २३७) परिअरबंधेन भडं जानिज्जा महिलिअंनिवसनेनं।
सित्थेण दोणवायं कविं च इकाए गाहाए।। (से तं अवयवेणं) वृ. परियर गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भटं-शूरपुरुषं जानीयातलक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन महिलां-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाक:-स्विन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयाद, एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कवि जानीयाद्, अयमत्रा-- भिप्रायो-यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org