________________
मूलं-२३४ वीररसोऽत्रनिवृत्तः, इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषेविधानाद्रसनिष्पत्तिर्वक्तव्या, प्रायोवृत्ति चाश्रित्यैवमुक्तं, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषोनन्तरेणापि निष्पत्तेरिति, पुनः किंविष्टा अमी भवन्तीत्याह-'हवंति सुद्धा व मीसा व'त्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित्काव्ये शुद्ध एक एवरसो निबध्यते, क्वचित्तु द्वयादिरसंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तुभिष्टस्य रसरस्य सर्वस्याप्यभिधानात्रवनामेदमुच्यते। 'सेतं नवनामे'त्ति निगमनम्। अथ दशनामाभिधानार्थमाह
मू.( २३५) से किंतंदसनामे?, २ दसविहे पन्नत्ते, तंजहा-गोण्णे नोगोण्णेअआयाणपएणं पडिवक्खपएणं पहाणयाए अनाइअसिद्धतेन नामेणं अवयवेणं संजोगेनं पमाणेणं । से किं तं गोण्णे?, २ खमईत्ति खमणो तवइत्ति तवनो जलइत्ति जलणो पवइति पवनो, से तं गोण्णे। से किंतं नोगोण्णे?, अंकुतो संकुतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिआ सकुलिआ नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीयवावए बीअवावए नो इंदगोवए इंदगोवे, सेतं नोगोण्णे। से किं तंआयाणपएणं?, २(धम्मोमंगलंचूलिआ) आवंती चाउरंगिन्ज असंखयं अहातथिज्ज अद्दइज्जं जन्नइज्जं पुरिसइज्ज (उसंकारिज्ज) एलइज्जं वीरीयं धम्मो मग्गो समोसरणं जमाअं, सेतं आयाणपएणं।
वृ. गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह-'से किं तु गुण्णे' इत्यादि, गुणैनिष्पन्नं गौणं, यथार्थमित्यर्थः, तच्चानेकप्रकारं, तत्र क्षमत इति श्रमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्न, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निवृत्तम्, एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १ । 'से किं तं नोगुण्णे' इत्यादि, गुणनिष्पन्नं यन्त्र भवति तन्नोगौणम्-अयथार्थमित्यर्थः-'अंकुते संकुते' इत्यादि, अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्ततत्तति पक्षी प्रोच्यत इत्ययथार्थता, एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेष: समुद्गः, अंगुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो-अजलराशिः 'अलालं पलालं' ति इह प्रकृष्टा लाला यत्र तत्प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमुच्यत इति, प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं नियुत्पत्तिकमेवोच्यते इति न यथार्थायथार्थचिन्ता संभवति, अउलिया सउलिय'ति अत्रापि कुलकाभिः सहवर्तमानैव प्राकृते सउलियत्ति भण्यते, या तुकुलिकारहितैव पक्षिणी सा कथं सउलियत्ति?, इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः?, इत्येवमन्यत्राऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमनश्नन्नपि पलाश इत्यादि तु सुगम, नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषाः 'से तं नोगोण्णे'त्ति निगमनम् ।
'से कि तं आयाणपएण'मित्यादि, आदीयते-तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्दपं चादानपदं शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च 'आवंती'त्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनं, 30/24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org