________________
मूलं-२२६
३६७ व. अशुचि-मूत्रपुरीषादि वस्तु कुणपं-शवः अपरमपि यद्ददर्शनं गलल्लालादिकराल शरीरादि तेषां संयोगाभ्यासादअभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेद:-उद्वेग, अविहिंसा-जन्तुघातादिनिवृत्तिः, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तति ।
'असुई' त्याद्युदाहरणगाथा, इह कश्चिदुपलब्भशरीराद्यसारतास्वरूपः प्राह-कलिः-जघन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मूर्च्छत्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विञ्चन्तीति सण्टङ्कः, कथंभूतम् ? अशुचिमलभृतानि निर्झराणि-श्रोत्रादिविवराणि यस्य तत्तथा, सर्वकालमपि स्वभावतो दुर्गन्धं तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भावनीयानि।
अथ हास्यरसं हेतुलक्षणाभ्यामाहम.(२२७) रूववयवेसभासाविवरीअविलंबणासमपन्नो।
हासो मनप्पहासो पगासलिंगो रसो होइ ।। मू. ( २२८) हासो रसो जहा- पासुत्तमसीमंडिअपडिबुद्धं देवरं पलोअंती।
ही जह थणभरकंपनपनमिअमज्झा हसइ सामा। वृ. रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना-निवर्तना तत्मुत्पन्नो हास्यो रसो भवतीति संयोगः, तत्र पुरुषादेयोंषिदादिरूपकरणं रूपवैपरीत्यं, तरुणादेर्वृद्धादिभावापादानं वयोवैपरीत्यं, राजपुत्रोदेर्वाणिगादिवेषधारणं वेषण्वैपरीत्यं, गुर्जरदेस्तुमध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, स च कथंभूतः, स्पादित्याह-'मणप्पहासो'त्ति मनःप्रहर्षकारी प्रकाशो-नेत्रवक्त्रादिविकाशस्वरूपो लिङ्गं स्यास्य स तथा, अथवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽट्टहासादीनि लिङ्गानि यस्येति स तथेति।
'पासुत्तमसी'त्यादिनिदर्शनगाथा; इह कयाचिद्वध्वा प्रसुप्तो निजदेवस्श्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां च हसन्तीमपुलभ्य कश्चित्पार्श्ववर्तिनं कञ्चितपार्श्ववतिनं कञ्चिदामन्त्र्य प्राह-हीति कन्दतिशयद्योतकं वचः, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बनन्धः, किं कुर्वती-देवरं प्रलोकयन्ती, कथंभूतं ? -'पासुत्ते'त्यादि छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति।
अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाहमू. (२२९) पिअविप्पओगबंधवहवाहिविनिवायसंभमुप्पन्नो।
सोइअविलविअपम्हाणरुन्नलिंगो रसो करुणो। मू.( २३०)करुणो रसो जहा-पज्झायकिलामिअयं बाहागयपप्पुअच्छिअंबहुसो।
तस्स विओगे पुत्तिय! दुब्बलयं ते मुहं जायं। वृ. प्रियविप्रयोगबन्धवधव्याधिविनिपातसम्भ्रमेभ्यः समुत्पन्नः करुणो रस इति योग, तत्र विनिपातः-सुतादिभरणं सम्भ्रत:-परचक्रादिभयं शेषं प्रतीतं, किंलक्षण इत्याह-शोचित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org