________________
३६५
मूल-२१८
वृ.शृङ्गारो नाम रसः, किंविशिष्ट इत्याह-'रती'त्यादि, रतिशब्देनेहरतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते तैः सार्द्ध संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव, तथा मण्डनविलासविब्बोकहास्यलीलारमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कङ्कणादिभिः, विलास:-कामगर्भो रम्यो नयनादिविभ्रमो विब्बोयत्ति देशीपदं अङ्गजविकारार्थ, हास्यं प्रतीतं, लीला-सकामगमनभाषितादिरमणीयचेष्टा, रमणं-क्रीडनमिति।
उदाहरणमाह-'सिंगारो' इत्यादि, 'महुर गाहा, श्यामा स्त्री मेखलादाम-रसनासूत्रं दर्शयति, प्रकटयतीत्यर्थ, कथंभूतमित्याह-रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरं, तथा विलासैःसकामैश्चेष्टाविशेषैर्ललितं-मनोहारि, तथा शब्दोद्दाम-किङ्किणीस्वनमुखरं, किमिति तत्प्रकटयतीत्याह-यतो 'हृदयोन्मादनकर' प्रबलस्मरदीपनं यूनामिति, शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति ॥ अद्भुतं स्वरूपतो लक्षणतश्चाहमू.(२१९) विम्हयकरो अपुचो अनुभुअपुब्बो य जो रसो होइ।
हरिसविसाउप्पत्तीलक्खणो अब्भुओ नाम।। मू. ( २२०)अब्भुओ रसो जहा-अब्भुअतरमिह एत्तो अन्नं किं अस्थि जीवलोगंमि।
जंजिनवयणे अत्था तिकालजुत्ता मुनिज्जति?॥ वृ. कस्मिंश्चिदद्भुते वस्तुनि दृष्टे विस्मयं करोति, विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतनामेति सण्टङ्कः, कथंभूतः ? - अपूर्वः-अननुभूतपूर्वोऽनुभूतपूर्वो वा, किंलक्षण इत्याह-हर्षविषादोत्पत्तिलक्षणः, शुभे वस्तुन्युद्भुतो दृष्टे हर्षजननलक्षणः अशुभे तु विषादजननलक्षण इत्यर्थः, उदाहरणमाह
'अब्भुय' गाहा, इह जीवलोकेऽद्भुततरम् इतो-जिनवचनात् किमन्यदस्ति?, नास्तीत्यर्थः, कुत इत्याह-'यद्' यस्माञ्जिनवचनेनार्थाः-जीवादयः सूक्ष्मव्यवहिततिरोहितातीन्द्रियामूर्तादिस्वरूपाः अतीतानागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति ।
अथ रौद्रं हेतुतो लक्षणतश्चाहमू. ( २२१) भयजननरूवसबंधयाचिताकहासमुप्पन्नो।
संमोहसंभमविसायसरणलिंगो रसो रोद्दो । मू.(२२२ )रोद्दो रसो जहा-भिउडीविडंबिअमुहो संदट्ठोट इअ रुहिरमाकिनो।
हणसि पसु असुरणिभो भीमरसिअ अइरोह ! रोद्दोऽसि॥ वृ.रूपंशत्रुपिशाचादीनां शब्दस्तेषामेव, अन्धकारंबहुलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता-तत्स्वरूपर्यालोचनरूपा कथा-तत्स्वरूपभणनलक्षाणा, तथोपलक्षणत्वाद् दर्शनादि च गृह्यते, तेभ्यः समुत्पन्नो-जाता रौद्रो रस इति योगः, किंलक्षण इत्याह-'संमोह:'किंकर्तव्यत्वमूढता सम्भ्रणोव्याकुलत्वं विषादः-किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूपः मरणं- भयोद्भ्रान्तगजसुकुमालहन्तृसोमिलद्विजस्येय प्राणत्यागस्तानि 'लिङ्ग लक्षणं यस्य स तथा
आह-ननु भयजनकरूपादिभ्यः समुत्पन्नः संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वं ?, सत्यं, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org