SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मूल-६१ गुणप्रतिपत्रः, अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च "नोदन्वानार्थतामेति, न चाम्भोभिर्न पूर्यते। __ आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ।।" अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, तस्य, प्रशस्तेप्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयोपशमभावतोऽवधिज्ञानमुपजायते।। ___ मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसरस्पर्द्धकानि देशघातीनि, भवन्ति, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं बन्धकाले तथारूपाणामेव तेषां बन्धनात्, ततो मनःपर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मति श्रुतावरणाचक्षुदर्शनावरणान्तण्यप्रकृतीनां पुनः सर्वघातीनिरसस्पर्द्धकानियेन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्द्धकानि भवन्ति, तेषां तथास्वाभाव्यात्, ततो मत्यावरणादीनां सदैव देशधातिनामेव रसस्पर्द्धकानामुदयः, सदैव च क्षयोपशमः, उक्तं च पञ्चसंग्रहमूलटीकायां-'मतिश्रुतावरणाचक्षुदर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवोदयः, ततस्तासां सदैवोदयिकक्षायौपशमिकौ भावावि'ति कृतं प्रसङ्गेन। 'तद्' अवधिज्ञानं 'समासत:' संक्षेपेण षड्विधं' षट्प्रकारंप्रज्ञप्तम्, तद्यथा-'आनुगामिकमि त्वादि, तत्र गच्छन्तं पुरुषम्-आसमन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकं, स्वार्थे का प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगामिकं, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिकं शृङ्खलाप्रतिबद्धप्रदीप इव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्तं च "अनुगामिओऽनुगच्छइ गच्छंतं लोअणं जहा पुरिसं। इयरो उनानुगच्छइ ठियप्पईवोव गच्छंतं ।।" तथा वर्द्धत इतिवर्द्धमानं, ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादिभिर्वर्द्धमानदहनज्वालाकलाप इव पूर्वावस्थातो यथायोगप्रशस्तप्रशस्ततराध्यवासयभावतोऽभिवर्द्धमानमवधिज्ञानं वर्द्धमानकं, तच्चासकृतिशिष्टगुणविशुद्धिसापेक्षत्वात्। तथा हीयते-तथाविधसामय्यभावतो हानिमुपगच्छति हीयमानं, कर्मकर्तृविवक्षायामानश्प्रत्ययः, हीयमानमेव हीयमानकं, कुत्सिताल्पाज्ञाते' इति कः प्रत्ययः, पूर्वावस्थातो यदधो हासमुपगच्छत्यवधिज्ञानं तत् हीयमानकमिति भावः, उक्तं च-हीयमानं पुवावत्थाओ अहोऽहो हस्समाणं" इति। तथा प्रतिपतनशीलं प्रतिपाति, यदुत्पन्नं सत् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति तत्प्रतिपातीत्यर्थः । हीयमानकप्रतिपातिनोः कः प्रतिविशेष इति चेद्, उच्यते, हीयमानकं पूर्वावस्थातोऽधोऽधो हसमुपगच्छदभिधीयते, यत्पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत्प्रतिपाति तथा न प्रतिपाति-यत्न केवलज्ञानादाक्र्धशमुपयाति तदप्रतिपातीत्यर्थः आह-आनुगामिकानानुगामिकरूपभेदद्वये एव शेषभेदा वर्द्धमानकादयोऽन्तर्भावयितुं शक्यन्ते, तत्किमर्थं तेषामुपादानं?, उच्यते, यद्यप्यन्तर्भावयितुं शक्यन्ते तथाऽप्यानु | 30/6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy