________________
नन्दी - चूलिकासूत्रं
७०
न
स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, ततः आत्मस्वभावभूता ज्ञानस्यभिनिबोधिकादयो भेदाः, ते च प्रवचनो-पदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, चैवमात्मस्वभाव भूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुड्यद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ?, न खलु सकलघनपटलकटकुड्यद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाश भेदा भवन्ति, उक्तं च"कडविवरागयकिरणा मेहंतारियस्स जह दिनेसस्स ।
ते कडमेहावगमे न होंति जह तह इमाईपि ॥"
ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्म्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः, उक्तं च" जमिह छउमत्थभ्रम्मा जम्माईया न होंति सिद्धाणं ! इय केवलीणमाभिनिबोहा भावंमि को दोसो ? ||" इति ।
पर आह- प्रपन्ना वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं, परममीषां भेदानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति ब्रूमः, किं तदिति चेद्, उच्यते, इह मति श्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि ' जत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाण' मित्यादिवक्ष्यमाणवचनप्रामाण्यात् ततः स्वामिसाधर्म्यं, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि तत्र प्रवाहापेक्षया अतीतानागतर्त्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च
-
“दो वारे विजयाइसु गयस्स तिन्नुच्चुए अहव ताई ।
अइरेगं नरभवियं नाणाजीवाण सव्वद्धा ।"
इति कालसाधर्म्यं यथेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् तथा यथा मतिज्ञानमादेशत: सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम्, यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोरग्रे स्वयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम्, तत इत्थं स्वाम्यादिसाधर्म्यादेव मति श्रुते नियमादेकत्र कक्तव्ये, ते चावध्यादिज्ञानेभ्यः, प्रागेव, तद्भाव एवाबध्यादिज्ञानसद्भावात्, उक्तं च
"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाणि य तेणाईए मइसुयाई ॥ "
ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्वं मतिः पश्चात् श्रुतमित्येतत्कथम्?, उच्यते, मतिपूर्वकत्वात् श्रुतज्ञानस्य, तथाहि - सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छुतं तथा चोक्तं चूर्णावपि "तेसुऽपि य मइपुव्वय सुयंतिकिच्चा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International