________________
नन्दी-चूलिकासूत्रं विहिते नन्दनं नन्दिः प्रमोदो हर्प इत्यर्थः, नन्देिहेतुत्वात्, ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽनेनास्मिवेति वा नन्दि:-इदमेवप्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाच्चाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्यस्त्वम, 'इ: सर्वधातम्यः' इत्यौणादिक इप्रत्यतः, अपरेतु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' इति सूत्रादिक्प्रत्ययं समानीय स्त्रीत्येऽपि वर्तयन्ति, ततश्च 'इतोऽक्त्यर्थादि' तिडीप्रत्ययः ।
सच नन्दिश्चतुर्धा-तद्यथा-नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनन्दिश्च, तत्र नामनन्दिर्यस्य कस्य चिज्जीवस्याजीवस्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दि मनन्दिः, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्चनामनन्दिः, नन्दिरिति नामवान्नामनन्दिः, तथा सद्भावमाश्रित्य लेप्यकादिष्वसद्भावं चाश्रित्वाक्षवराटकादिषु भावनन्दिमत: साध्वादेर्या स्थापना सस्थापनानन्दिः, अथवा द्वादशविधतूर्यरूपद्रव्यनन्दिस्थापनास्थापनानन्दिः, द्रव्यनन्दिर्द्विधा-आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य'मिति वचनात, नोआगमतस्तुविधा, तद्यथा-ज्ञशरीरद्रव्यनन्दिर्भव्यशरीरद्रव्यनन्दिर्जशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च, तत्र यन्नन्दिपदार्थज्ञस्य व्यपगतजीवितस्य शरीरं सिद्धशिलातलादिगतं तद्भूतभावतया ज्ञशरीरद्रव्यनन्दिः, यस्तु बालको नेदानी नन्दिशब्दार्थमवबध्यते अथ चावश्यमायत्यां तेनैव शरीरसमुच्छ्यण भोत्स्यतेस भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दिः, इह हि यद् भूतभावं भाविभावं वा वस्तु तद्यथाक्रमं विवक्षितभूतभाविभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागतम्, उक्तं च -
"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके।
तद्रव्यं तत्त्वज्ञैः सचेतना चेतनं कथितम्॥" ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाऽऽविष्टो द्वादशविधतूर्यसमुदायः, उक्तं
"दव्वे तूरसमुदओ" तानि च द्वादश तूर्याण्यमूनि - "भभा मुकुंद मद्दल कडंब झल्लेरि हुडुक्क कंसाला।
काहल तलिमा वंसो संखो पणवो य बारसमो।" भावनन्दिर्द्विधा-आगमतो नोआगतश्च, तत्रागमतो नन्दिपदार्थस्य् ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदवः, भावम्मि पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानस्वरूपमात्रप्रतिपादकोऽध्ययनविशेपो भावनन्दिः, नोशब्दस्यैकदेशववनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि-अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतोवर्तते, ततएकदेशः, अतएव चायंसर्वश्रुतस्कन्धाम्भेषुसकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिराभिधीयते। अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते। तत आचार्योऽपि देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविघ्नेन अध्यापकश्रावकपाठकचिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इति ज्ञापनार्थं सामान्यतो भगवत्तीर्थकृतस्तुतिमभिधातुमाहमू. (१) जयइ जगजीवजोणीवियाणओ जगगुरू जगानंदो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
www.