________________
५६
नन्दी - चूलिकासूत्र
दध्ययनप्रदाने महानर्थोपनिपात: ?, उच्यते,
ते हि तथास्वाभाव्यादेव अचिन्त्यचिन्तामणिकल्पमज्ञानतमः समूहभास्करमनेकभवशतसहस्त्रपरम्परासंकलितकर्मराशिविच्छेदकमपीदमध्ययनमवाप्य न विधिवदासेवन्ते, नापि मनसा बहुमन्यन्ते, लाघवमपि चास्य यथाशक्ति सम्पादयन्तिः, परेषामपि च यथायोगं बुद्धिर्भेदयन्ति, ततो विधि समासेवकाः कल्याणमिव ते महदकल्याणमासादयन्ति, उक्तं च"आमे धडे निहतं जहा जलं तं घडं विनासेइ ।
इय सिद्धंतरहस्सं अप्पाहारं विनासेइ ॥ "
-
ततोऽयोग्येभ्यः प्रकृताध्ययनप्रदाने तेषामनर्थोनिपातः, स वस्तुतो दातृकृत एवेति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्राधिकृतगाथायां प्रथममयोग्यशिष्यविषये मुद्गशैलधनदृष्टान्त उपात्तः, सच काल्पनिकः, मुद्गशैलघनयोर्वक्ष्यमाणप्रकारोऽहङ्कारर्दिन सम्भवति, तयोरचेतनत्वात्, केवलं शिष्यमतिवितानाय तौ तथा कल्पयित्वा दृष्टान्तत्वेनोपात्तौ, त चैतदनुपपन्नं, आर्षेऽपि काल्पनिकदृष्टान्तस्याभ्यनुज्ञानात्, यदाह भगवान् भद्रबाहुस्वामी -
"चरियं च कप्पियं वा आहरणं दुविहमेव पन्नत्तं ।
17
अत्थस्स साहणट्ठा इंधनमिव ओयणद्वाएं ।'
ततो नानुपपन्नः शैलघनदृष्टान्तः, तद्भावना चेयं - इह कचिद् गोष्पदायामरण्यान्यां मुद्रप्रमाणः क्षितिधरो मुद्रशैलाभिधो वर्तते, इतश्च जम्बूद्वीपप्रमाणः पुष्करावतीभिधानो महामेघः, तत्र महर्षिनारदस्थानीयः कोऽपि कलहाभिनन्दी तयोः कलहमाधातुं प्रथमतो मुद्रशैलस्योपकण्ठमगमत्, गत्वा च तमेवमभाषिष्ट-भो मुद्रशैल! कचिदवसरे महापुरुषसदसि जलेन भेत्तुमशक्यो मुद्रशैल इति मया त्वगुणवर्णनायां क्रियमाणायां नामापि तव पुष्करावत्ती न सहते स्म, यथा अलमनेनालीकप्रशंसावचनेन, ये हिशिखरसहस्राग्रभागोल्लिखितनभोमण्डलतलाः कुलाचलादयः शिखरिण: तेऽपि महा (दा) ऽऽसारोपनिपातेन भिद्यमानाः शतशो भेदमुपयान्ति, किं पुनः स वराको यो मदेकधारोपनिपातमात्रमपि न सहते ?, तदेवमुत्प्रासितो मुद्गशैलः, समुज्जवलितकोपानलोऽहङ्कारपुरस्सरं तमेवमवादीत् भो नारदमहर्षे! किमत्र तं प्रति परोक्षे बहुजल्पितेन ?, शृणु मे भाषितमेकं, यदि तेन दुरात्मन सप्ताहोरात्रवर्षिणाऽपि मे तिलतुषसहस्रांशमात्रमपि भिद्यते ततोऽहं मुद्रशैलनामापि नोद्वहामि,
'S'
ततः स पुरुषोऽमूनि मुद्रशैलवचांसि चेतस्यवधार्य कलहोत्थानाय पुष्करावर्त्तमेघसमीपमुपागमत्, मुद्रशैलवचनानि सर्वाण्यपि सोत्कर्षं तस्य पुरतोऽन्ववादीत्, स च श्रुत्वा तानि वचनानि कांपमतीवाशिश्रियत्, स च पुरुषाणि वचनानी वक्तुं प्रावर्तिष्ट यथा-हा दुष्टः स वराकोऽनात्मज्ञो मामप्यवमधिक्षिपतीति, ततः सर्वादरेण सप्ताहोरात्रान् यावत् निरन्तरं मुशलप्रमाणधारोपनिपातेन वर्षितमयतिष्ट, सप्ताहोरात्रनिरन्तरवृष्टया च सकलमपि विश्वम्भरामण्डलं जलप्लावितमासीत्, तत एकार्णवकल्पं विश्वमालोक्य चिन्तितवान्हतः समूलघातं स वराक इति, ततः प्रतिनिवृत्तो वर्षांत्, क्रमेण चापसृते जलसङ्घाते सहर्षं पुष्करावत्ती नारदमेवमवादीत् भो नारद! स वराकः सम्प्रति कामवस्थामुपागतो वर्त्तते इति सहैव निरीक्ष्यतां, ततः तौ सहभूय मुद्रशैलस्य पार्श्वमगमतां, समुद्रशैलः पूर्वं धूली धूसरशरीरत्वात् मन्दं मन्दमकाशिष्ट, सम्प्रति तु तस्यापि धूलेरपनयनादधि-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org