________________
२८
नन्दी-चूलिकासूत्रं सर्वान्तिमप्रकर्षोऽपि तस्यवति कथमतीन्द्रियज्ञानसम्भव:?, इन्द्रियाश्रितस्य च ज्ञानस्य प्रकर्षभावेऽपि न सर्वविषयता, तस्य सूक्ष्मादावप्रवृत्तेः,अथोच्यते-मनोज्ञानमप्यतीन्द्रियज्ञानमुच्यते, तस्य च तरतमभावः शास्त्रादौ दृष्ट एव. तथाहि-तदेव शास्त्र कश्चित् झटित्येव पठति अवधारयति च, अपरस्तु मन्दं, बोधतोऽपि कश्चिन्मुकुलितार्थावबोधमपरो विशिष्टावबोधः, एवमन्यास्वपि कलासु यथायोगं मनोविज्ञानस्य तारतम्यं परिभाव्ये, ततः तस्य सर्वान्तिमः, प्रकर्यः सर्वविषयो भविष्यति, तदसद्, यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राधालम्बन एवोपलब्धः, ततः प्रकर्षभावोऽपि तस्य शास्त्राधालम्बन एव युक्त्यांपपद्यते, न सर्वविपयः, न खल्वन्यविषयोऽध्यासोऽन्यविषयं प्रकर्पभावमुपजनयति, तथाऽनुएलब्धेः उक्तं च..
"शास्त्राद्यभयासतः शास्त्रप्रभृत्येवावगच्छतः ।
साकल्यवेदनं तस्य, कुत एवागमिष्यति? ॥" अत्रोच्यते, इह तावदिन्द्रियज्ञानाश्रितः तरतमभावो न ग्राह्यः, अतीन्द्रियप्रत्यक्षसाधनाय हेतोरुपन्यासात्, तथाहि-सकलवस्तुविपयमतीन्द्रियप्रत्यक्षमिदानीं साधयितुमिष्टं, ततः तरतमभावोऽपि हेतुन्वेनोपन्यस्तोऽतीन्द्रियज्ञानस्यैव वेदितव्यः, अन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मत्वायोगात्, साक्षाच्चातीन्द्रियग्रहणं न कृतं, प्रस्तावादेवलब्धत्वात्, अतीन्द्रियं च ज्ञानमिन्द्रियानाश्रितं सामान्येन द्रष्टव्यम्, तेन मनोज्ञानमपि गृह्यते, यदप्युक्तम्-'मनोज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवेति प्रकर्षभावोऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीनं, शास्त्राद्यतिक्रान्तस्यापि तरतमभावस्य सम्भवात्, तथाहि
योगिनः परमयोगमिच्छन्त: प्रथमत:शस्त्रमभ्यसितुमुद्यतन्ते, यथाशक्ति च शास्त्रानुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानिर्वेतिकृत्वा, ततो निरन्तरमेव यथोक्तानुष्ठानपुरस्सरंशास्त्रमभ्यस्यतां शुद्धचेतसां प्रतिदिवसमभिवर्द्धन्ते प्रज्ञामेधादिगुणाः, ते चाभ्यासादभिवर्द्धमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिद्धाः, ततः शनैः शनैरभ्यासप्रकर्षे जायामाने शास्त्रसन्दर्शितोपाया: वचनगोचरातीता: शेषप्राणिगणसंवेदनागम्याः सिद्धिपदसम्पद्धेतवः सूक्ष्मसूक्ष्मतरार्थविषया मनाक्समुल्लसत्स्फुटप्रतिभासा ज्ञानविशेषा उत्पद्यन्ते, ततः किञ्चिदूनात्यन्तप्रकर्षसम्भवे मनसोऽपि निरपेक्षमत्यादिज्ञानाप्रकर्षपर्यन्तोत्तरकालभावि केवलज्ञानादाक्तनं सवितुरुदयात् प्राक्तदालोककल्पमशेषरूपादिवस्तुविपयं प्रातिभं ज्ञानमुदयते, तच्च स्पष्टाभतयेन्द्रियप्रत्यक्षादधिकतरं, नचेदमसिद्धं, सर्वदर्शनेप्वप्यध्यात्मशास्त्रष्तस्याभिधानात्, अथ प्रथमतोमनः-सापेक्षमभ्यासमारब्धवान्, अभ्यासप्रकर्षे तूपजायमाने कथं मनोऽपि नालम्बते?; उच्यते, अत्यन्ताभ्यासप्रकर्षवशतो मनोनिरपेक्षमपि शक्तत्वात्, तथाहि
तरणं शिक्षितुकाम: प्रथमं तरण्डमपेक्षते, ततोऽभ्यासप्रकर्षयोगत: तरणनिष्णातस्तरण्डमपि परित्यजति, एवं योग्यपि वेदितव्यः, ततः सर्वोत्कृष्टप्रकर्षसम्भवेऽतीव स्फुटप्रतिभासं सकललोकालोकविषयमनुपममबाध्यं केवलज्ञानमुदयते, ततो यदुक्तं 'शास्त्रद्यभ्यासत: शास्त्रप्रभृत्येवा-- वगच्छत' इत्यादि, तदत्यन्तमध्यात्मशास्त्रयाथात्म्यवेदिगुरुसम्पर्कबहिर्भूतत्वसूचकमवसेयं, स्यादेतत्, तारतम्यदर्शनादस्तु ज्ञानस्य प्रकर्षसम्भवानुमानं. स तु प्रकर्षः सकलवस्तुविषय इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org