________________
मूलं - १५३
२३१
त्रिकेति प्राकृतत्वात् स्वार्थे कः प्रत्ययः, ततोऽयमर्थः, त्रिनयिकानि - त्रिनयोपेतानि, किमुक्तं भवति ? - त्रैराशिक मतमवलम्ब्य द्रव्यास्तिकायादिनयत्रिकेण चिन्त्यन्ते इति, तथा इत्येतानि द्वाविशति: सूत्राणि स्वसमयसूत्र परिपाट्यां स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां चतुर्नयिकानिसङ्ग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि सङ्ग्रहादिनयचतुष्टयेन चिन्त्यते इत्यर्थः, एवमेव-उक्तेनैव प्रकारेण 'पुव्वावरेणं' ति पूर्वाणि चापराणि च पूर्वापरंसमाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः, ततः, एकदुक्तं भवति नयविभागतो विभन्नानि पूर्वाण्यपराणि च सूत्राणि समुदितानि सर्वसङ्ख्ययाऽष्टाशीतिः सूत्राणि भवन्ति, चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वात, इत्याख्यातं तीर्थकरगणधरैः, 'से तं सुत्ताई' तान्येतानि सूत्राणि २ ।
'से किं त' मित्यादि, अथ किं तत्पूर्वगतं ?, इह तीर्थकरस्तीर्थप्रवर्त्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्वं पूर्वगतं सूत्रार्थं भाषते, ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनः सूत्ररचनां विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा अन्ये तु व्याचक्षते - पूर्वं पूर्वगतसूत्रार्थमर्हन् भाषते, गणधरा अपि पूर्वं पूर्वगतसूत्रं विरचयन्ति पश्चादाचारादिकम्, अत्र चोदकआह-नन्विदं पूर्वापरविरुद्धं पस्मादादौ निर्युक्तावुक्तं- 'सव्वेसि आयारो पढमो' इत्यादि, सत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह -
'पुव्वगयं' इत्यादि, पूर्वगतं श्रुतं चतुर्द्दशविधं प्रज्ञतं, तद्यथा - 'उत्पादपूर्व 'मित्यादि, तत्र उत्पादप्रतिपादकं पूर्वमुत्पादपूर्वं, तथाहि तत्र सर्वद्रवव्याणां सर्वपर्यायाणां चोत्पादमधिकृत्य प्ररूपणा क्रियते, आहचूर्णिकृत् -"पढमं उप्पायपुव्वं, तत्थ सव्वदव्वाणं पज्जवाण य उप्पायमंगीकाउं पशवणा कया" इति, तस्य पदपरिमाणमेका पदकोटी। द्वितीयमग्रायणीयं, अग्रपरिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थ:, तथाहि तत्र सर्वजीवद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते, यत उक्तं चूर्णिकृता
1
"बिइयं अग्गाणीयं, तत्थ सव्वदव्वाण पज्जवाण सव्वजीवाण य अग्गं परिमाणं वन्निज्जइ "त्ति, अग्रायणीयं, तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि, तृतीयं पूर्व 'वीरिय' - न्ति पदैकदेशे पदसमुदायोपचाराद्वीर्यप्रवादं, तत्र सकर्मेतराणां जीवानामजीवानां च वीर्यं प्रवदन्तीति वीर्यप्रवादं, 'कर्मणोऽणि 'ति अण्प्रत्ययः, तस्य पदपरिमाणं सप्ततिः पदशतसहस्राणि,
चतुर्थमस्तिनास्तिप्रवादं, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि तत्प्रवदतीत्यस्तिनास्तिप्रवादं, अथवा सर्वं वस्तु स्वरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवादं, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि ।
पञ्चमं ज्ञानप्रवादं ज्ञानं मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञानप्रवादं, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यूना ।
षष्ठं सत्यप्रवादं, सत्यं - संयमो वचनं वा तत्सत्यं संयमं वचनं वा प्रकर्षेण सप्रपञ्चं वदतीति सत्यप्रवादं, तस्य पदपरिमाणमेका पदकोटी षद्भिः पदैरभ्यधिका ।
सप्तमं पूर्वमात्मप्रवादं, आत्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवादं तस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org