SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मूलं-१४० २२१ 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इतिवचनात्, ततो ज्ञानादीनां ज्ञानाद्याधारणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसम्पद्वद्धिहेतुत्वेन परम्परया मुक्त्यङ्गमुपजायते, यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुः, यतः सुरनृपत्यादिपु विनयो विधीयमानः सुरनृपत्यादिभावविषयं बहुमानमापादयति, अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, तद्वहुमाने च भोगबहुमानमेव कृतं परमार्थतो भवतीति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनस्तेऽपि यदि साक्षाद्विनयमेव केवलं मुक्तङ्गमिच्छन्ति तहितेऽप्यसमीचीनवादिनो वेदितव्याः, ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षान्मुक्त्यङ्गत्वाभावात्, न खलुज्ञानदर्शचारित्ररहिताः, केवलपादपतनादिविनयमात्रेण मुक्तिमार्गमश्नुवते जन्तवः, किन्तु ज्ञानादिसहिताः, ततो ज्ञानादिकमेव साक्षान्मुक्त्यङ्ग, न विनयः, कथमेतदवसीयते?, __ इति चेदुच्यते, इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्मजालं, कर्मजालक्षवाच्च मोक्षः 'मुक्तिः कर्मक्षयादिष्टे'तिवचनप्रामाण्यात् कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमन्तरेण सर्वथा सम्भवति, ततो मिथ्यात्वप्रतिपक्षं सम्यग्दर्शनमज्ञानप्रतिपक्षं च ज्ञानमविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकोच्छेदो भवतीति ज्ञानादिकं साक्षान्मुक्त्यङ्ग,नविनयमानं, केवलं विनयो ज्ञानादिषु विधीयमानः परम्परा मुक्त्यङ्गं साक्षात्तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनंतत्र २ प्रदेशे गीयते, यदि पुनर्यतिविनयवादिनोऽपि ज्ञानादिवृद्धिहेतुतया मुक्त्यङ्गं विनियमिच्छन्ति तदा तेऽप्यस्मत्पथवर्तिन एवेति न कदा(का)चिद्विप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतमनुसन्धीयते। 'सूयगडस्सणं परित्ता' इत्यादि सर्वं प्राग्वत्, उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकालासङ्ख्या भावनीया, 'सेत्तं सूयगडे' तदेतत्सूत्रकृतं . मू. (१४१) से किं तं ठाणे?, ठाने नं जीवा ठाविज्जति, अजीवा ठगविजंति, ससमए ठाविज्जइ परसमए विज्जइ ससमयपरसमए विज्जइ लोए गविज्जइ अलोए ठाविण्जइ लोआलोए ठाविज्जइ, ठाणे नं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा नईओ आघविज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से गं अंगट्ठयाए तइए अंगे एगे सुअक्खंधे, दस अज्झयणा एगवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरि पयहस्सा पयगणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परिता तसा अनंता थावरा सासयकडनिबद्धनिकाइआजिनपत्रता भावा आपविजंति पत्नविजंति परूविज्जति दसिजति निदसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ, सेतं ठाणे।। वृ. 'से किं तमित्यादि, अथ किं तत्स्थानं ?, तिष्ठन्ति, प्रतिपाद्यतया जीवदयः, पदार्था अस्मिन्निति स्थानं, तथा चाह सूरि:-'ठाणे न'मित्यादि, स्थानेन स्थाने वा 'ण'मिति वाक्यालङ्कारे, जीवाः स्थाप्यन्ते-यथाऽवस्थितस्वरूपप्ररूपणा व्यवस्थाप्यन्ते, शेषं प्रायो निगदसिद्ध, नवरं 'टंक त्ति छिनतटं टङ्घ, कूटानि पर्वतस्योपरि, यथा वैतादयस्योपरि सिद्धायतनकूटादीनि नव कूटनि, शैला हिमवदादयः, शिखरिणः-शिखरेण समन्विताः, ते च वैताढ्यदयः तथा यत्कूटमुपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं, यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनर्गतं तत्प्राग्भारं, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy