________________
२०९
मूलं-१४० तीव्रतीवरचित्तकालुप्यभाव(स्त)तोऽहङ्कारः ततश्च प्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घतर: संसारः, तथा चोक्तम्
. "अन्त्रेण अन्नहा देसियंमि भावंमि नाणगवेणं ।
कुणइ विवायं कलुसियचित्तो तत्तो य से बंधो।" यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसम्भवो नापि परस्योपरिचित्तकालुष्यभावः, ततो न कर्मबन्धसम्भवः, अपिच-सञ्चिन्त्य क्रियते कर्मबन्धः, स दारुणविपाकः, अत एव चावश्यंवेद्यः, तस्य तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारमन्तरेण कायवाक्कर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यंवेद्यो, नापि तस्य दारुणो विपाकः, केवलमतिशुष्क सुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे सम्पजायते, ज्ञाने सत्यभिनिवेशसम्भवात, तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमीति, अन्यच्च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कत्तुं पार्येत यावता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कत्तुं शक्यते-किमिदं ज्ञानं सम्यग् नेदमिति?, उक्तं च
"सव्वे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति।
तीरइ न तओ काउंविनिच्छओ एवमेयंति ।।" अथोच्येत-इह यत्सकलवस्तुस्तोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञानं तत्सम्यग् नेतरत्, असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते ?, तद्ग्राहकप्रमाणाभावात् अपिच-सुगतादयोऽपि सौगतदिभिः सकलवस्तुस्तोमसाक्षात्कारिण इप्यन्ते, तत्कि सुगतादिः सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्वाभिः किंवा भगवद्वद्धमानस्वामीति तदवस्थ एव निश्चयाभाव:?,स्यादेतत्-किमत्र संशयेन?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टरविभूतिद्युतिपरिकलिताः शतसहस्रसङ्घयेन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म च भगवान् वर्द्धमानस्वामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तहि तेषामपि देवा: पूजामकरिष्यन् न च कृतवन्तस्तस्मान ते सर्वज्ञाः तदेतत्स्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानस्वामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त इत्येतदपि कथमवीसयते?,भगवतश्चिरातीतत्वेनेदानीं तदभावग्राहकप्रमाणाभावातं. सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः किन्तु सत्यपुरुषप्रविर्तत एवेति कथमवगन्तव्यं ?, तद्ग्राहकप्रमाणाभावात्, न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्तत: सञ्चरतः स्वस्य च पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः?, तथा चाह भावत्क एव स्तुतिकारः समन्तभद्रः - 30/14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org