________________
मूलं-१४०
२०७ यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ।।१।।
किञ्च कालाइते नैव, मुद्गपक्तिरपीक्ष्यते। स्थाल्यादिसनिधानेऽपि, ततः कालादसौ मता।।२।। कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया।
परेष्टहेतुसद्भावमात्रादेव तदुद्भवात्॥३॥ काल: पचति भूतानि, काल: संहरति प्रजाः।
काल: सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥४॥" अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुपसंयोगादिमात्ररूपहेतुसद्भावमात्रादेव 'तदुद्भवादि'ति गर्भाधुद्भवप्रसङ्गादिति, तथा काल: पचति-परिपाकं नयति परिणति नयति 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजा:-पूर्वपर्यायात् प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति, काल एवं तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हि:-स्फुटं दुरतिक्रमः अपाकर्तुमशक्यः काल इति।
उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरंकालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति जीवः स्वतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्यरूपचतुष्टयं प्राणिनां स्वर्गापवर्गयो: प्रेरकमिति, तदुक्तम्
___ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः
ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥ .. अन्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयो।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेण वा ।।२।।" इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व' मित्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां, ते ह्येवमाहुः-नियतिर्नाम तत्त्वान्तरमस्ति यद्वशादेते भावा: सर्वेऽपि नियतेनैवरूपेण प्रादुर्भावमशुवते, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा ततएव नियतेनैवरूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था चन भवेत्, नियामकाभावात्,तत एव कार्यनयत्यत: प्रतीयमानामिमांनियति को नाम प्रमाणकुशलो बाधितुं क्षमते?, मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः, तथा चोक्तम्
"नियतेनैव रूपेण, सर्वे भावा भवन्ति यत्। ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः ।।१।।
यद्यदेव यतो यावत्तत्तदेव ततस्तथा। नियतं जायते न्यायात् (नान्यात), क एनां बाधितुं क्षमः?॥२॥" पञ्चमो विकल्पः स्वभाववादिना, ते हि स्वभाववादिन एवमाहुः-इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच्च प्रतिनियतभवनं न तथास्वभावतामन्तरेण घटकोटीसण्डङ्कमाटोकते, तस्मात् सकलमिदं स्वभावकृतमवसेयं, अपिच-आस्तामन्यत् कार्यजातं इह मुद्गपक्तिरपि न स्वभावमन्तरेण भवितुर्महति, तथाहि-स्थालीन्धनकालादिसामग्रीसम्भवेऽपिन काङ्कटकमुद्गानां पक्तिरुप
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org