________________
२०५
मूलं-१३९ सुयखंधा पणवीसं अज्झयणाणि एयं आयारग्गसहियरस आयारस्स पमाणं भणिय, अट्ठारसपयसहस्सा पुण पढमसुयक्खंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तअत्थनिबद्धाणि य सुत्ताणि गुरूवएसओ सिं अत्थो जाणियव्वो"त्ति
तथा सङ्खयेयानि अक्षराणि, पदानां सङ्खयेयत्वात्, तथा अनंतागमा' इति इहगमाः-अर्थगमा गृह्यन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ताः, एकस्मादेव सूत्रादतिशायिमतिमेधादिगुणानां तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात्, एतच्च टीकाकृतो व्याख्यानं, चूर्णिकृत् पुनराह-अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा-'सुयं मे आउसंतेणं भगवया एवमक्खाय'मिति, इदं च सुर्धमस्वामी जम्बूस्वामिनं प्रत्याह तत्रायमर्थः- श्रुतं मया हे आयुष्यमन्! तेन-भगवता वर्द्धमानस्वामिना एवमाख्यातं, अथवा श्रुतं मया आयुष्मदन्ते' आयुष्यमतो-भगवतो वर्द्धमानस्वामिनोऽन्ते-समीपे 'ण'मिति वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्यमन्! तेणं'ति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽयुष्मन् ! तेणं'ति तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्यमन्! ते नं'ति षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एवमाख्यातं, अथवा श्रुतं मम हे आयुष्यमन् ! वर्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तंतमर्थमधिकृत्य गमा भवन्ति, अभिधानवशत: पुनरेवं गमाः
"सुयं मे आउसं आउसं सुयं मे मे सुयं आउस" मित्येवमर्थभेदेन तथा २ पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ता: पर्यायाः ते च स्वपरभेदभित्रा अक्षरार्थगोचरा वेदितव्याः, तथा परीताः-परिमितास्त्रसा-द्वीन्द्रियादयः, अनन्ताः स्थावरा:-वनस्पतिकायादयः, 'सासयकडनिबद्धनिकाइय'त्ति शाश्वता-धर्मास्तिकायादयः कृता:-प्रयोगविस्रसाजन्या घटसन्ध्याभ्ररागादयः, एते सर्वेऽपि त्रासदयो निबद्धाः-सूत्रे स्वरूपतः उक्ता निकाचिता:-नियुक्तिसंग्रहणिहेतदाहरणादिभिरनेकधा व्यवस्थापिता जिनप्रज्ञप्ता भावाःपदार्थाः आख्यायन्ते-सामान्यरूपतया विशेषरूपतयावा कथ्यन्ते प्रज्ञाप्यन्ते-नामादिभेदोपन्यासेन प्ररूप्यन्ते नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते प्रदर्श्यन्तेउपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते-हेतुदृष्टान्तोपदर्शनेन उपदर्श्यन्ते-निगमनेन शिष्यबुद्धौनिःशङ्कव्यवस्थाप्यन्ते ।
साम्प्रतमाचारङ्गग्रहणे फलं प्रतिपादयति-'से एव'मित्यादि, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा-एवंरूयो भवति, अयमात्र भाव:-अस्मिन्त्राचाराङ्ग भावत: सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त इवाऽऽचारो भवतीति, आह च टीकाकृत-"तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः" इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह_ 'एवं नाय'त्ति यथाऽचाराने, निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं वित्राय'त्ति यथा नियुक्तिसंग्रहणिहेतूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारे'त्ति सोऽयमाचारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org