________________
मूलं-१
इत्यादि, एतेन संसारमोचकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशल... मार्गप्रवृत्तत्वमावेदितंदृष्टव्यं, यतेस्ते एवमाहः___ यत्परिणामसुन्दरं तदापातकटुकमपि परेपामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि-कृमिकोटपतङ्गमशकलावकचटककुष्टिम - हादरिद्रान्धपंग्वादयो दुःखितजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्फुवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हिव्यापदने महादुःखमतीवोपजायते, तीव्रदुःखवेदनाभिभववशाच्च प्राग्बद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति, स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीव्रवेदनाऽनुभवतः प्रारबद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरात द्रध्यानोपगमतः प्रभूततरंपापमावर्जयन्तीति?, उच्यते, युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि-नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेद नोत्कर्त्तनशूल्यारोपणाधनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीव्रवेदना रौद्रध्यानोपगता अपि प्रारबद्धमेव कर्म क्षपयन्ति, नापूर्वं पापमधिकतरमुपार्जयन्ति, नारकायुर्बन्धासम्भवात्, तदसम्भवश्चानन्तरं भूयः तत्रैवोत्पादाभावाद्। ___ अपि च-यत एव रौद्रध्यानोपगता अत एव तेषा प्रभूततरप्रारबद्धपापकर्मपरिक्षयः, तीव्रसङ्केलशभावात्, न खलु तीवसङ्कलेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापदका व्यापाद्यानामुपकारका एव, इत्थं च व्यापादनत: तेषामुपकारसम्भवे ये तद्यापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते नते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽपकारसम्भवात्, न च परहितनिरताः परापकृतये संरम्भमातन्वन्ते, तदेतदयुक्तम्, परोपकारो हिस सुधिया विधेयो य आत्मन उपकारको, न च परेषां व्यापादनेनोपकृतिकरणे भवतः कमप्युपकारमीक्षामहे, तथाहि
परेषांव्यापादने को भवतः उपकार:?, किं पुण्यबन्धः उत कर्मक्षयः?, तत्र न तावत्पुण्यबन्धः, परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाघेरंस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जनान्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति, विरोधात्, सर्वस्य पुण्यबन्धप्रसक्तेश्च, एतेन यदुक्तं-- ___ 'परिणामसुन्दरं च दुःखितसत्त्वानांव्यापादन मिति तदसिद्धं द्रष्टव्यम्, पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वायोगात्, अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्यमुताहो वधजन्यं ?, तत्र न तावदज्ञानहेतुकम्, अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात्, यो हि यन्निमित्तो दोष: स तत्प्रतिपक्षस्यैवासेवायां निवर्तते, यथा हिमजनितं शीतमनलासेवनेन, नचाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते?, अथाहिंसाजन्यमिति वदेत्, तदपि न युक्तम्, एवं सति मुक्तानामपि कर्मबन्धप्रसक्तः, तेषामहिंसकत्वात्, अथहिंसाजन्यं, यद्येवं तहि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिर्भवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्त्तते, ततः प्राणिहिंसोत्पा .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org